________________
हेतु खण्डनपाण्डित्यम् ।
करणानित्यवृत्तिधर्मत्वं मास्तु एवं परेण प्रसञ्जिते, प्रमाणानुग्राहकव्याघातबाधकतर्कस्य व्यभिचारपिशाचदुः सञ्चरत्वेनानुदयाद नैकान्तिकश्च । तथा च कथं महाविद्यात्वम् । अपरं च महाविद्यासाध्ये महाविद्यासाध्यं वर्तते न वा । वर्तते चेत् तदा सप्रश्रय आत्माश्रयपातः । न वर्तते चेत् तदा महाविद्यासाध्ये हेतोर्वर्तनात्, साध्ये साध्यस्याऽवर्तनात् तस्यैव विपक्षत्वादनैकान्तिकश्चेति दोषत्रयी त्रिनेत्रनेत्रत्रयीवात्र चौकमाना कथं महाविद्यात्वं क्षमते इति चिन्तनीयं चतुरचेतोभिः |
"
अन्यच्च, अनित्ये पदार्थे साध्यमाने आत्मादिनित्यपदार्थस्य पक्षीकरणं न युक्तिमत् । यतः संदिग्धसाध्यवान् पक्ष इति पक्षलक्षणम्, तच्चात्मादौ नित्ये पदार्थे नास्ति । अनित्यत्वस्य शब्दे साध्यमानत्वेन शब्दस्यैव, संदिग्धसाध्यवत्त्वात्, आत्मनो नित्यत्वे नोभयो':, सिद्धस्य तथात्वाभावात् । तथात्वेऽपि तत्र हेतुवृत्त्यङ्गीकारेऽसिद्धत्वाद्युद्भावनमुक्तयुक्त्या केन निवार्यते । तस्मादात्मादयः पक्षत्वेनोपन्यस्यमाना अजागलस्तनकल्पनाsसकत्कल्पा एव प्रामाणिकमार्गाननुसरणात् । यथा साध्याभावमपि पक्षीकुरुषे तदपि न समीचीनम् । सर्वथाऽसतो निरूपाख्यस्य पक्षीकर्तुमशक्यत्वात् । असदपि चेत् पक्षीक्रियते तदा तुङ्गतुरङ्गशृङ्गगगनाम्भोरुहादयोऽपि पक्षीक्रियताम् । युक्तेः समानत्वात् । तुच्छे साध्याभावे साध्यसाधनेऽदरिद्रमेव विश्व स्यात् । इत्यादयो महाविद्याहेतुखण्डनप्रकाराः श्रीभुवनसुन्दर सूरिपादप्रणीतमहा विद्याविडम्बनादवसेयाः ।
1
तथा प्रमेयत्व - सत्त्वरूपसाधनानां हेतुमल्लोललाङ्गूललम्बायितमहाविद्यानुमानानां वक्रच्छायानुमानानां चानिष्टव्याप्यप्रसञ्जनेन हेतोरनैकान्तिकत्वं भावनीयम् । तत्र विपक्षवृत्तित्वेन व्यापकारोपासम्भवात् न प्रमाणानुग्राहक व्यधितितर्क सम्भव इति । अनुकूलतर्कसम्भवश्चैवं द्वयोर्विरुद्धधर्मयोरेकत्रसमुच्चये कीर्त्तमाने व्याघातः स्यात्, यथा ‘पर्वतोऽयं वह्निमान् धूमत्वान्महानसवत्' इत्यादि वादिनाऽभिहिते परो निश्चितान्यथानुपपत्येकरूपं हेतुलक्षणं निराकर्तुं व्यापारोऽयं विधत्ते । यथा व्यतिरेकव्याप्तौ व्याप्यत्वेनो (ना) भिमतो वह्निमत्त्वाभावस्तत्र धूमत्वसद्भावारोपो यथा 'धूमवत्त्वं भवतु वह्निमत्त्वं मास्तु' इत्युक्ते प्रतिवादिना हेतोः साध्याभावत्वं सूचितं तथा चासिद्धत्वं हेतो. ।
८५
तन्निराकरणाय रङ्गव्प्रसङ्गव्यासङ्गाघसङ्घातविधातोद्भटप्रकटव्याघातनिर्घातदर्शनेन व्यापकारोपः क्रियते, यथा 'यथनग्नि' स्यात् तर्हि निर्धूम' स्यात्' इति प्रसङ्गागतो व्यापकारोपः । भावना त्वेवम् अस्ति च धूमस्तस्माद्वह्निमानिति व्याप्यारोपे व्यापकारोप इति लक्षणेन तर्केण प्रमाणानुग्राहकेण साध्याभाववत्त्वं हेतोः प्रसञ्जितं १ पक्षीकरणमिति शेष. ।