________________
साधुविजयनिवद्धम् प्रत्यर्थिहेतोरपि यः स्वहेतोर्वावक्ति वै साध्यसमृद्धिसिद्धिम् ।
स्फुरत्स्फुलिङ्गात् स हुताशनादेः पानीयपानं कुरुते न कस्मात् ॥ इत्युपहसनीयम् । ननु विपक्षसपक्षादिपक्षीकृत्य प्रवर्तमानमहाविद्यातनुत्राणपरित्राणायमानविस्मयस्मेरास्मदुपन्यासविन्यासावासविश्रान्तहेतुनरेश्वरस्य पुरतो वाचस्पतेरपि प्रवीणवाणी कृपाणीप्रगुणीकृता सती कुण्ठताकार्पण्यायोत्कण्ठते । के एतेऽस[त्]कल्पा गजविकल्पकल्पा विकल्पा एवं चेत् तर्हि शक्रेणापि अप्रतिक्रियमाणपरित्राणायमानास्मद्विधीयमानप्रत्यवस्थानविधेरध स्थीस्थीयतां क्षणमेकं विलोक्यता तत्तनुत्राणपरित्राणताम् । नन्वहो वादिन् ! सावद्यस्यास्यानुमानस्य विद्यात्वमपि नोपपत्तिपद्धतिमुपयाति । कुतस्तन्नाम महाविद्यात्वम् । तथाहि-असिद्धत्वादिदोपविरहो हि महाविद्यात्वं शुभवता भवता भण्यते । तच्च प्रामाणिकचक्राकामोघयुक्तिशक्तिप्रकोपपावकप्रथमाहुतीभूतम् । यतो व्याप्यत्वासिद्धत्ववाधितोऽय हेत्वाभासः । केवलान्वयित्वेन व्यतिरेकव्याप्तेरभावात् । तथाहि-साध्यं परमार्थतोऽत्रानित्यत्वमेव शब्दस्य । तथाहि--'अनित्यः शब्दः कृतकत्वात् , घटवत्' इत्यत्राश्र(श्रा)वणत्वमुपाधिः । ततो 'यदनित्यं तदश्रावणम्' इति साध्यव्यापकश्चायमुपाधिरिति शब्दस्य विवादास्पदीभूतं साध्यत्वेनाभिप्रेतं शब्दनित्यत्वम्, ततस्तेनाव्यभिचारित्वादेव सोपाधिकत्वं सिद्धम् । मैव वादीः । यतोऽत्र शब्दस्यानित्यत्वं न साध्यम्, किन्तु शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तित्वम् । तत्र च नोपाधिना व्याप्तिः | शब्दत्वेन व्यभिचारात् । ततः साध्यव्यापकत्वाभावान्नायमुपाधिरिति तन्मैवम् । प्रामाणिकप्रणीतप्रमाणमार्गातिक्रमणविपुलस्वकपोलकल्पितानल्पयत्तच्छन्दविकल्पशब्दनलम्बीकृतस्याप्यनुमानस्य शब्दानित्यत्व एव विश्रामात् । साध्यं च तदेव यद् विवादास्पदीभूतं सिसाधयिषितमस्ति प्रतिपक्षे मेयत्वेन । तत् तत्त्वतोऽनित्यत्वमेवेति । यदुक्तमेतदनुमानोपाधिसंग्राहक पद्यं बृहन्महाविद्याविडम्बने
यो भङ्गिस्थनिवृतिमत्त्वरहितो यद्वर्जिते मेयता मेयत्वे श्रुतिगोचरत्वविरह स स्यादुपाधिर्भुवः । शब्दत्वादि निवर्त्यमस्ति न ततः पक्षेतरत्वभ्रम
सर्वत्रैवमुपाधिरप्रतिहतो नो चेन्न हेत्वन्तरे ॥ इति । ततो व्याप्यत्वासिद्धत्वेनाप्रयोजकत्वान्न साध्यसिद्धिः । यदुक्तम्-अन्ये परप्रयुक्ताना मित्यादि ।] तथा विरुद्धोद्धतराक्षसीकुक्षिनिक्षिप्तोऽप्ययं हेत्वाभासः । यतो विरुद्रसाधनाद् विरुद्धः, तच्चात्रानित्यत्वं साध्यम्, तद्विपरीतं नित्यत्वम्, तदप्यनेनानुमानेन शब्दवैपरीत्येन साधयितुं शक्यत्वात् । तथाहि-घटः शब्देतरानित्यवृत्तित्वानधिकरणनित्यवृत्तिधर्मवान् इति । अन्यच्च प्रमेयत्वं भवतु, शब्देतरानित्यनित्यवृत्तित्वानधि