________________
हेतुखण्डनपाण्डित्यम् । एवं पूर्वोक्तयुक्त्या विचार्यमाणो युष्मन्निरूपितो हेतुर्न स्वसाध्यसिद्धौ साधीयस्तां दधाति । तथापि पुनरप्येकशः प्रकारान्तरेण विचार्यते । तथाहिअसौ हेतुस्तर्कवितर्कसम्पर्ककर्कशशेमुषीविशेषोन्मेषाभिलषितलक्षणलक्षित आहोस्वित् परोलक्षदक्षविक्षेपितलक्षणलक्षितः ? इति विकल्पयुगलं कुलाचलकुञ्जरस्थूलविमलदन्तयुगलमिव प्रतीतिपथातिथीभावं भजति । तत्र द्वितीयो नाद्वैतानन्दनिष्यन्दसम्पत्सम्पादकः । न हि कोऽपि प्रवीणप्रामाणिकः प्रामाणिकीभूय भूयः सङ्ख्यावत्पर्षदि निर्लक्षणं हेतुमाचष्टे, तस्य सर्वोपाख्याविरहितत्वेन साध्यसिद्धावनादरणीयत्वात् । अथ पौरस्त्यः प्रस्तूयते । स्वस्तिवास्तवीभूतप्रशस्तमतिभिस्तदा प्रचण्डदोर्दण्डाखण्डपाण्डित्योड्डामरतामण्डलाखण्डलपराक्रमायमाणपण्डितप्रकाण्डचण्डिमोन्मुक्तातिवक्रचक्रककृत्तमुण्डः कथं स्वसाध्यसिद्धिप्राणप्रियाप्रणयिनीमनःप्रमोदसम्पत्सम्पादनाय सपनीपद्यते । तथाहिहेतुः स्वात्मसिद्धिसौधमध्यमध्यारोहणाय लक्षणमपेक्षते, लक्षणमपि व्याप्तिप्राप्तिम्, व्याप्तिप्राप्तिरपि हेतुम्, हेतुरपि लक्षणम्, लक्षणमपि व्याप्तिप्राप्तिम्, व्याप्तिरपि हेतुमित्यावर्तनमिति कथ स्वसाध्यसाधकः । यतः
यश्चक्रकापातनिकृत्तमौलेहेतोः स्वसाध्यस्य समृद्धिसिद्धिम् । विनैव रत्नत्रयमीहतेऽसौ दुरुत्तरानन्तभवाब्धिपारम् ॥
पूर्वोपाधेरनौपाधिकः सम्बन्धो व्याप्तिरव्यभिचरितसम्बन्धो वा व्याप्तिरिति लक्षणाया व्याप्तेरभावाचानकान्तिको भवन् कथमप्यसौ हेतुः स्वसाध्यसाधकः । तथा प्रकरणसमोऽप्ययं हेतु', साध्यविपरीतसाधकहेन्वन्तरसद्भावात् । तथाहि-इहेदं साधनं स्वसाध्यसिद्धये नोपन्यसनीयम् , स्वसाध्यसिद्धावसाधकतमत्वात् । यद् यत्र स्वसाध्यसाधनायासाधकतमं तत् तत्र नोपन्यसनीयम्, यथेह घटं प्रति घटः । न जायते चानेन साध्यसिद्धिः । तस्मान्नोपन्यसनीयमिति व्यापकविरुद्धोपलब्धिरिति । अपरमपि यथा पक्षः स्वस्वेतरवृत्तित्वानधिकरणास्ववृत्तिधर्माधिकरणम्, मेयत्वात् , घटवदिति ।१। अत्रान्यान्यपि प्रमाणानि मुग्धप्रामाणिकमेधाव्यामोहापनोदाय लिख्यन्ते । यथा-पक्षः साध्यनिष्ठात्यन्ताभावाधिकरणम्, मेयत्वात् , घटवदिति । २ । पक्षः साध्यधर्मातिरिक्तधर्माधिकरणम् , प्रतीयमानत्वानिर्विवादपदवत् ।३। पक्षविपक्षधर्मनिष्ठात्यन्ताभावाधिकरणम्, प्रमेयत्वादविगीतपदवत् ।४। अयं पक्ष एतत्पक्षधर्मान्यधर्मवानसत्त्वात् ५। पक्षोऽयं पक्षधर्मनिष्ठात्यन्ताभावाधिकरणम्, मेयत्वाद् उभयाविगीतपदवत् ।६। इत्यादीनि वक्रच्छायानुमानानि प्रतिपक्षोत्थापकानि पर शतानि परिस्फुरन्ति । ततः कथमिद साधनं युष्मदुपज्ञसाध्यसाधकमिति । यथा---