________________
साधुविजयनिवद्धम् तद्भावना चैवम् – यथा प्रपञ्चो मिथ्या, प्रतीयमानत्वात्, शुक्तिकाशकले कलधौतज्ञानवदिति । अत्र पक्ष-सपक्षयोमिथ्यात्वानिश्चितवृत्तित्वं विपक्षे ब्रह्मणि निणीतवृत्तित्वं च । तथाऽत्रापि । तथा च कथं स्वसाध्यसाधकत्वम् १ यदवादि-~~
हेतोरनैकान्तिकतोऽपि कान्तां स्वसाध्यसिद्धिश्रियमीहते य. । पञ्चत्वप्राप्तादपि केरिपुत्रास्केकायित कामयतेऽनभिज्ञ ॥
तथा सव्यभिचार्यप्यसावित्युच्यते इति स्थितम् । अपरं च, अथावितथतथाविधप्रज्ञाप्रकर्षप्राप्तप्रमाणप्रयोगप्रबोधप्रथितप्रतिज्ञोपन्यासविन्याससमर्थनासामर्थ्याभावादप्रयोजकोऽप्ययं हेतु. । कथमस्य निश्चितपञ्चरूपोपपन्नप्रतिष्टाप्रतिष्टितस्य हेतुनरेश्वरस्याप्रयोजकत्वम् ? महाव्याधीभूतोद्धतोपाधिसद्भावात् । भवतु पच्यन्तां त्वदीया अपि मण्डकाः । परम्, अत्र कस्तावदुपाधिः सनिधीयते धीधनप्रधान. । पक्षेतरत्वमिति चेद् अहो तदक्षण(क्षुण्ण)लक्षणानपेक्ष्यं तव वैदुष्यम्, समव्याप्तेरभावात् । यथा, 'पर्वतोऽयं वह्निमान् धूमवत्त्वात्' इत्यादौ पक्षेतरोपाधेः समन्याप्त्यभावः, यथा 'यो यो वहिमान् स स पक्षेतरः' इत्यस्ति, परम् 'यो या पक्षेतर' स स वह्निमान्' इति नास्ति । पक्षेणैव व्यभिचारात् । तेन पक्षेतरोपाधेर्न दूषणत्वम् | मैवमवादिपुस्तत्रभवन्तो भवन्तः । तथाहि-~-'अदृष्टं कस्यचित् प्रत्यक्ष प्रमेयत्वात् , करतलामलकवत्' इति । अत्र पक्षेतरापरपर्यायमस्मत्प्रत्यक्षल्वमुपाधिः । तस्य च साध्यसमव्याप्तिसद्भावात् । तद्यथा 'यत् कस्यचित् प्रत्यक्षं तदस्मदादिप्रत्यक्षम्, यथा घटः । यदस्मदादिप्रत्यक्षं तत् कस्यचित् प्रत्यक्ष यथा तदेव' इति समव्याप्तेरपि सद्भावात् । एवमनेकेष्वपि समव्याप्तेरप्युपनीवकत्वेन पक्षेतरस्योपाधित्वं न निराकार्यम् । एतच्चाग्रत उपाधिखण्डनाधिकारे विस्तरतो दर्शयिष्यते । अन्यच्चापरोऽप्युपाधि. सुविधनिधिरिवोपढौकते, यथा पक्षावृत्ति-साध्याविनाभाविसपक्षासाधारणरूप इति । अत्र सकलमपि लक्षणं भावनीयम् । एतयाख्यानभावना प्रत्युपाधिप्रदीपाधिकारे ज्ञेया । एवं च सोपाधिकत्वे हेतुः कथं नाम स्वसाध्यसाधकः । यदुक्तमुदयनाचार्य:
अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः ।। तैर्दृष्टैरपि नेष्टव्या व्यापकांगावधारणा ॥ स्वसाध्यसंसिद्धिविधावुपाधिव्याधिप्रबन्धोद्धरमीहते यः ।
हेतुं स वै बालकुवेलनालावलम्बनादम्बुधिपारमिच्छेत् ॥ ५ दे० क्षुण।