________________
हेतुखण्डनपाण्डित्यम् । किमपि कौतुकमेकमहो जनाः शृणुत यूयममुष्य मनस्विनः । कवलितोत्कटहालहलोऽपि यन्नवसुधारसमुगिरतीह यत् ॥ अगतिकगतिनीत्या यस्तु हेतोरसिद्धादपि वदति विशुद्धामत्र साध्यस्य सिद्धिम् । स खलु गलितबुद्धिर्वन्ध्यसीमन्तिनीतः। स्पृहयति भुवनानां भूषणं पुत्ररत्नम् ॥
यथा कश्चित् प्रमाणयति-धूमवत्त्व-बाष्प-मशक-कलिकाविवेकानिश्चये 'वह्निमानयं प्रदेशः धूमवत्त्वात्' इत्यादौ यथा निश्चयाभावादनिश्चितापरपर्यायः सन्दिग्धासिद्धो हेत्वाभासो न साध्यसाधकस्तथाऽत्रापीति । व्याप्यत्वासिद्धत्वं त्वग्रे दर्शयिष्यते । अन्यच्च, हेतोरनिश्चितरूपत्वाद् विपक्षवृत्तिभावात् तदाहतो दुर्धरोद्धतविरुद्धतादोषकेसरिकिसो(गो)रापातगलितगतिर्भवदुपन्यस्तप्रशस्तहेतुहस्तिनीपति' स्वसाध्यसिद्धिप्राणप्रियप्रणयिनीप्रथीयस्तरप्रीतिपथावितथातिथ्याभ्यर्थनासमर्थनासामर्थ्य कथं समर्थयिष्यति । यथा 'पृथिवी नित्या कार्यत्वात्, घटवत्' इति । अत्र कृतकत्व तु कार्यरूपद्वयणुकादिपृथिव्यां वर्तते, न परमाण्वादौ, विपक्षे तु घटादौ सर्वत्राप्यस्ति । तथेहाप्यनिश्चितरूपहेतो. पक्षवृत्तित्वं विपक्षवृत्तित्वं च वर्तते । तथा च कथ नाम स्वसाध्यसाधकत्वमिति । यथा--
हेतोविरुद्धादपि साध्यसिद्धि यश्चेक्षते शिक्षितमानशिक्षः ।
क्रोधप्रबन्धोद्धतपन्नगेन्द्रात् समीहते सौधरसस्य वृष्टिम् ॥ तथा खण्डनेऽप्युक्तं श्रीहर्षमित्रै.--
यावच्चाव्यतिरेकित्वं गतांशेनापि शङ्कयते ।
विपक्षस्य कुतस्तावद्वेतोर्गमनिकाबलम् ॥ इति । ततो यत्किञ्चिदेतदिति । तथैवानिश्चितरूपपक्षाङ्गीकारपक्षेऽप्यकान्तानैकान्तिकताकामुककुटिनोकटुकटाक्षविक्षेपाक्षेपविक्षेपित स्वबुद्धिविधिविधीयमानयोगाभ्यासो भवदुपन्यस्तहेत्वाभासो मुमुक्षुमुख्य इव मनीषितस्वसाध्यसिद्धिसौधमध्यं कथमध्यारोहति । हेतुलक्षणप्रतियोग्यनिश्चितस्वरूपत्वात् तस्य पक्षे, विपक्षे पूर्वदर्शितयुक्त्या सन्दिग्धवत्तित्वम् , सपक्षे तथारूपानिर्णीतवृत्तित्वं च । तथा पक्षत्रयवृत्त्यनैकान्तिकलक्षणत्वाच्च ।