________________
साधुविजयनिवद्धम् ___ मिति चक्रकाक्रान्तमौलि. कथं स्वसाध्यसाधक इति । यतः ...
यश्चक्रकापातनिकृत्तमौलेः समीहते साधनतोऽर्थसिद्धिम् । पद्माकरस्य प्रतिबोधमस्तात्
स पद्मवन्धोरपि वाञ्छति स्म । अथामुत्रामात्रपवित्रपुरुषार्थत्रयस्य सार्थकप्रामाणा(ण्य)समर्थनासमर्थचतुर्थपुरुपार्थ इव चतुर्थः पक्षः तृतीयविकल्पस्य प्रामाण्यसमर्थनार्थमेव समर्थयिप्यते, तदा दुस्थाऽनवस्थारूपकृत्योत्थानं स्ववधाय प्रस्थापितं विबुधधोरणीधुराधरणधीरेयैः । तस्याश्चेदं लक्षणम् - पूर्वस्योत्तरोत्तरापेक्षेति । सा चैवमावेद्यते-पौरस्त्यो निश्चितस्वरूपः स्वप्रामाण्यापादनाय द्वितीयम्, सोऽपि तथैव तृतीयम्, सोऽपि चतुर्थम् एवमुत्तरो त्तरप्रसृत्वरपरः सहस्रानल्पप्रमाणविकल्पकल्पनैरप्यभृतोदरविवरां मूलमयवद्धकक्षां तामपाकर्तुं कथमुपक्रम्यते । यदाहुः श्रीआनन्दानुभवाचार्याः यथा “मूलक्षयकरीमाहुरनवस्था हि दूषणम्" इति । ततः कथं साध्यसिद्धिः १ । यतः -
दुस्थाऽनवस्थोत्थितदौस्थ्यदुस्थं प्रस्थापयेत् साधनमर्थसिद्धयै । वाञ्छत्यसावस्तमतिः स्ववन्ध्या
सीमन्तिनीतस्तनयप्रसूतिम् ॥ एवं च निश्चितस्वरूपत्वोपपत्तियुक्तौ आत्माश्रय-इतरेतराश्रय-चक्रका-ऽनवस्थाद्यनेकविशेषदोषजालन्याकुलत्वमाकर्ण्य कर्णानेडनपीडितैः सकर्णैः पुनरपि तत्सिद्धिविधौ अनिश्चितरूपो द्वितीयपक्ष. कक्षीक्रियते । सोऽपि नाद्वैतवाद इव धन्यमान्यसौजन्यामन्दमाकन्दकन्दकन्दलनायाम्बुदवृन्दायते । यतस्तत्राप्यस्माभि प्रतिविधीयते -- यथा तत्र पवित्रानुमानेऽसिद्धविरुद्धानेकान्तिकरूपास्त्रयोऽपि हेत्वाभासहर्यक्षा भवदुपन्यस्तहेतुहरिणपोतं त्रासयन्तः कथमपाकरिष्यन्ते सूक्ष्मार्णम(माक्षुण्णम)नीपाविशेषविषमविशिखविक्षेपाक्षेपवद्धकक्षैरपि । तथाहि-हेतोस्तावत् पक्षधर्मत्व-सपक्षसत्त्व-विपक्षव्यावृत्तिरूपाणि त्रीणि रूपाणि निरूप्यन्तेऽभिरूपप्रधानैः । तत्र भवन्निरूपितहेतोरनिश्चितपक्षधर्मत्वेन तल्लक्षणाभावादुद्धतासिद्धताप्रोद्धतपामरीपरीरम्भारम्भसम्भवत्कलकपङ्कः कथमपाकरिष्यते हेतुश्रोत्रियस्याशक्यप्रतिक्रियैः । महत् कौतुकमिदं यदेवंविधादपि हेतोः साध्यसिद्धिः समीयते । यदुक्तं स्याद्वादरत्नाकरे