Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 117
________________ हेतुखण्डनपाण्डित्यम् । अस्यार्थः । एकेन साध्येन वेदविहिति(त)हिंसादिलक्षणेन(णे) पक्षेऽधर्मत्वरूपेण सहोभयोर्हेतूपाधिभूतयोरविनामावे साहचा(च)र्यभावे सति मिथः परस्परं निषिद्धत्वहिंसात्वयोः सम्बन्धेन व्याप्यव्यापकमावलक्षणेन रहितयोंईयोधर्मयोर्मध्ये यस्य निषिद्धत्वलक्षणस्यात्ययोऽभावः साध्यस्याधर्मत्वस्याभावेनाविनाभावी भवति, स तत्राधर्मत्वलक्षणे साध्ये निषिद्धत्वलक्षण उपाधिरिति तत्त्वम् । एतावता व्यतिरेकन्याति विना नोपाधेर्गमकत्वम् । यद्वा स उपाधिरुच्यते । स कः? यस्योपाधेरत्ययोऽभावः साच्याभावेन सहाविनाभावी ) कोऽर्थः ? यत्रोपाच्यभावस्तत्र साध्याभावः । एतावतोपाधिावर्तमानः साध्यमादाय व्यावर्त त] इत्यायातम् । यथा यन्निषिद्धं न भवति तदधर्मसाधनमपि न भवति, यथा देवपूजादि । क सति १ एकसाध्येति । ऐकेन साध्येन विमतहिंसायामधर्मसाधनत्वलक्षणेन सहोभयोहि सात्वहेतु-निषिद्धत्वोपाध्योरविनाभावे सति, यथा 'यत्र यत्राधर्मसाधनत्वं तत्र तत्र निषिद्धत्वं यथा व्यर्थहिंसायाम्। 'यत्र यत्र निषिद्धत्वं तत्र तत्राधर्मसाधनत्वं, यथा सुरापानम्' तथा हेतुनाविनाभावित्वम्, यथा 'यत्र यत्र हिंसात्वं तत्र तत्राधर्मसाधनत्वं यथा ब्राह्मणहिंसायाम् । एवं सति किं रूपयोर्हेतूपाध्योः १ मिथः परस्परं व्याप्यव्यापकमावस्तेन रहितयोः । यथा यत्र यत्र हिंसात्वं तत्र तत्र निषिद्धत्वमिति नास्ति, वेदोक्तहिंसया व्यभिचारादिति । अयं तावदुपाधिर्नान्वयिनि । साध्याभावाविनामावीत्यंशस्यासम्भवात् । नापि व्यतिरेकिणि । साध्यव्यापक इत्यंशस्यासम्भवात् । पक्षे साध्यव्यापकत्वे सिद्धसाधनताप्रसङ्गः । अतोऽयमुपाधिरन्वयव्यतिरेकिण्येव सम्भवति । सौंपाधित्वेन हेतोरप्रयोजकत्वं वदन्ति । तदाह- । समासमाविनाभावावेकत्र स्तों यदा तदा । समेन यदि नो व्याप्तस्तयोहीनोऽप्रयोजकः ॥ अस्यायमर्थः । समश्चासमश्च समासमौ, समासमावविनाभावौ ययोस्तौ समासमाविनाभावौ । एकस्य समोऽविनाभावोऽन्यस्यासमः । साध्येनाधर्मत्वादिना समत्वं च 'यत्र यत्र साध्यमधर्मत्वादि तत्र तत्र निषिद्धत्वादि, यत्र यत्रं निषिद्धत्वादि तत्र तत्राधर्मत्वादि' इति समाविनाभावं निषिद्धत्वादि । असमत्वं च 'यत्र हिंसादित्वादि तत्राधर्मसाधनत्वादि, यत्राधर्मसाधनत्वादि न तत्र नियमेन हिंसात्वादि । हिंसात्वादिकमन्तरेणापि सुरापानादावधर्मस्य दर्शनात् । अविनाभविश्च प्रमीयमाणन्यभिचारीभावः । न हि हिंसात्वमविनाभूतमधर्मत्वेन, अनौपाधिकसम्बन्धस्याविनाभावस्य हिंसात्वहेतावभावान्निषिद्धत्वस्यैकोपाधित्वात् । व्यभिचाराज्ञानं च नास्ति, उपाधिदर्शनेन

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193