Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 87
________________ जिनमण्डननिबद्धम् ॥ हेतुविडम्बनस्थलम् ॥ प्रणम्य श्रीमदहन्तं परमात्मानमव्ययम् । 'हेतोर्विडम्बनोपायो निरपायैः प्रतायते ॥ इह हि यः कश्चिद् विपश्चित्प्रचण्डप्रामाणिकप्रकाण्डश्रेणीशिरोमणीयमानः, सर्वाङ्गीणाऽनणीय प्रमाणधोरणोप्रगुणीभवदखण्डपाण्डित्योड्डामरतां स्वात्मनि मन्यमानः, स्वान्यानन्यसमसौजन्यधन्यत्रिभुवनमान्यवदान्यगणाऽवगणनानुगुणानणुतत्तद्भणितिरणरणककरं रणन्निस्समानाभिमान', अप्रतिहतप्रसरप्रवरनिरवद्यसद्यस्कानुमानपरम्पराबोभुवितनिस्तुषमनीपाविशेपोन्मिपन्मनीषिपरिषज्जाग्रत्प्रत्यग्रोदग्रमहीयोमहिमसन्मानः, शतमखगुरुमुखाञ्जविमुखताकारिहारिसर्वतोमुखशेमुपीमुखराऽसङ्ख्यसङ्ख्यावद्विख्यात---- पर्षदि विदिततर्ककर्कशवितर्कणचण' प्रामाणिकग्रामणीः प्रमाणयति, तस्यागस्याहङ्कारप्राग्भारतिरस्काराय चारुविचारचातुरीगरीयश्चतुरनरचेतश्चमत्काराय च किञ्चिदुच्यते । हं हो मनस्विन् । मान्यमनीषिमनोमनोहरविनोदाय प्रशस्तशब्दार्थसार्थविन्याससौवनवोपन्यासप्रोल्लासलीलायितदर्शनाय च यदनुमानमवादि, वादिवृन्दारकवृन्दपुरन्दरेण निष्प्रतिभप्रातिभवता भवता तत्र 'आदौ हेतुना साध्यसिद्धिर्विधेया धीधनेन' इति कृत्वा साध्यमेव किञ्चिद् विचार्यते । यथाहि-यदत्र पवित्रानुमाने साध्यमभ्यधायि भाग्यलभ्यसभ्यहर्षप्रकर्षाधायि तत् किं स्वरूपतः सिद्धस्वभावं बोभूयादसिद्धस्वभावं वा न तावदसिद्धस्वभावम् , तस्य हि सकलोपाख्याविकलताविख्यातखरविषाणप्रख्यत्वेन साध्यत्वाऽघटनात् । तथारूपस्यापि साधने सप्रश्रयाश्रयासिद्धेर्दु र्निवारत्वात् । साध्यस्वरूपासिद्धौ चेह हेतो. 'यत्र यत्र साधन तत्र तत्र साध्यम् इत्येवंरूपव्याप्ति. तदुपपत्तिप्रकाशनोपक्रमोऽपि वन्ध्यास्तनंधयभागधेयवर्णनमिव कस्य हास्याय न स्यात् प्रशस्यात्मन । _अथ सिद्धस्वभावमिति मन्येथास्तथापि कि तद् भवत. सिद्धस्वभावमुत सर्वेषां वा ? न तावत् सर्वेषाम् । न हि कोऽपि विकसत्प्रवेकविवेकवाचस्पतिः सर्वेषां सिद्धस्वभावसाध्यसाधनाय चेक्लिश्यते । न हि क्वापि धवलस्य धवलीकरणम् पिष्टस्य पेषणम् चर्वितस्य चर्वण वा केनापि दृष्टमिष्ट वा ।। अथ भवत इति समतं तर्हि तत्रापि तत् किमभीप्सितं भवेदनभीप्सित वा ? नाऽनभीप्सितम्, यत म्वानभिप्रेते साध्ये साव्यमाने धीमतोऽनित्यत्वसाधने साङ्ख्य १ पञ्चम्यन्तो लिङ्गप्रतिपादकवचनरूपो हेतु यथा धूमोऽग्नेलिङ्गम् । २ निर्दूषण. ३ श्रेष्ठः ।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193