Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 86
________________ श्रीभुवनसुन्दरसूरिरचितम् गीक्रियते । तथा च सति एकरूपमेव युज्यते न त्वनेकरूपम् । अनेकरूपत्वे वा सांश ननित्यं तदगीकार्यम् तथा च स्वमतक्षति । एक देहाधिष्ठातृ, एक जगद्व्यापकं ब्रह्मेत्याद्यपि न युक्तम् । ब्रह्मणो रूप्ये चकत्यहानिः । एवं च युप्मन्मते परमब्रह्मणः साधकं न किञ्चित् घटाकोटिसंटङ्कमाटीकते । किञ्च, एकमेव परब्रह्म यदि परमार्थसत्यं तदाऽपरं सर्वमप्यपरमार्थम् । एवं च सति भवतां सुवर्णे लोप्टे, पुष्पस्रजि सरीसृपे, हालाहले परमान्नभोजने च समानैव प्रवृत्तिविलोक्येत । न चास्ति तथा । तस्मादस्ति कोऽपि विशेषः । किञ्च, एकस्यैव परमब्रह्मणस्तात्त्विकत्वात् तस्य च सर्वत्र समानत्वात् श्वपाककृतपाके ब्राह्मणकृतपाके च समानैव भवतां भोजनवृत्तियुज्यते । किञ्च, श्वपाकस्पृष्टानां भवतां स्नानमपि न युक्तियुक्त]म् , उभयोरपि भवतो. परमब्रह्मविवर्तत्वात् पावित्र्यहेतुकत्वेन जलादे. कस्याप्यस्वीकाराच्च । अथ लोकव्यवहारेण सर्व प्रमाणम् । एवं लोकव्यवहारश्च चण्डालादिभिरपि क्रियमाणोऽस्त्यतस्तेऽपि स्वसाध्यसाधका भविष्यन्ति । किञ्च, एकस्यैव परमब्रह्मणस्तात्त्विकत्वेनाङ्गीकारे ब्राह्मणक्षत्रियादिवर्णविभागोऽप्ययुक्तः । तदेवमद्वैतवादस्य विचार्यमाणस्याघटमानत्वात् सिद्धं प्रमाणप्रमेयरूपं सकलं तत्त्वम् । तथा जैनमतमेव सकलपरवादिनिराकरिष्णुत्वेन विजयते । दुर्वादिकोलमदमर्दनसिंहरूपं स्याद्वादसश्रवणनष्टकुयुक्तिपक्ति । रागादिदोषरहितं सहितं गुणौघैः जैन मतं विजयते विजयप्रदायि ॥ [इति] परमब्रह्मोत्थापनस्थलम् । भुवनसुन्दरसूरिकृतं स्थलम् य इह उज्ज्वलधीः प्रयतिष्यते । शठकुवादिकणोऽनणुयुक्तिभिः प्रतिहतो लठयिष्यति तत्पदो ॥ इति श्रीभुवनसुन्दरसूरिविरचितं स्थलं संपूर्णम् ।

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193