________________
श्रीभुवनसुन्दरसूरिरचितम् गीक्रियते । तथा च सति एकरूपमेव युज्यते न त्वनेकरूपम् । अनेकरूपत्वे वा सांश ननित्यं तदगीकार्यम् तथा च स्वमतक्षति । एक देहाधिष्ठातृ, एक जगद्व्यापकं ब्रह्मेत्याद्यपि न युक्तम् । ब्रह्मणो रूप्ये चकत्यहानिः । एवं च युप्मन्मते परमब्रह्मणः साधकं न किञ्चित् घटाकोटिसंटङ्कमाटीकते ।
किञ्च, एकमेव परब्रह्म यदि परमार्थसत्यं तदाऽपरं सर्वमप्यपरमार्थम् । एवं च सति भवतां सुवर्णे लोप्टे, पुष्पस्रजि सरीसृपे, हालाहले परमान्नभोजने च समानैव प्रवृत्तिविलोक्येत । न चास्ति तथा । तस्मादस्ति कोऽपि विशेषः । किञ्च, एकस्यैव परमब्रह्मणस्तात्त्विकत्वात् तस्य च सर्वत्र समानत्वात् श्वपाककृतपाके ब्राह्मणकृतपाके च समानैव भवतां भोजनवृत्तियुज्यते । किञ्च, श्वपाकस्पृष्टानां भवतां स्नानमपि न युक्तियुक्त]म् , उभयोरपि भवतो. परमब्रह्मविवर्तत्वात् पावित्र्यहेतुकत्वेन जलादे. कस्याप्यस्वीकाराच्च । अथ लोकव्यवहारेण सर्व प्रमाणम् । एवं लोकव्यवहारश्च चण्डालादिभिरपि क्रियमाणोऽस्त्यतस्तेऽपि स्वसाध्यसाधका भविष्यन्ति । किञ्च, एकस्यैव परमब्रह्मणस्तात्त्विकत्वेनाङ्गीकारे ब्राह्मणक्षत्रियादिवर्णविभागोऽप्ययुक्तः । तदेवमद्वैतवादस्य विचार्यमाणस्याघटमानत्वात् सिद्धं प्रमाणप्रमेयरूपं सकलं तत्त्वम् । तथा जैनमतमेव सकलपरवादिनिराकरिष्णुत्वेन विजयते ।
दुर्वादिकोलमदमर्दनसिंहरूपं स्याद्वादसश्रवणनष्टकुयुक्तिपक्ति । रागादिदोषरहितं सहितं गुणौघैः
जैन मतं विजयते विजयप्रदायि ॥ [इति] परमब्रह्मोत्थापनस्थलम् ।
भुवनसुन्दरसूरिकृतं स्थलम् य इह उज्ज्वलधीः प्रयतिष्यते । शठकुवादिकणोऽनणुयुक्तिभिः प्रतिहतो लठयिष्यति तत्पदो ॥ इति श्रीभुवनसुन्दरसूरिविरचितं स्थलं संपूर्णम् ।