________________
जिनमण्डननिबद्धम् ॥ हेतुविडम्बनस्थलम् ॥ प्रणम्य श्रीमदहन्तं परमात्मानमव्ययम् ।
'हेतोर्विडम्बनोपायो निरपायैः प्रतायते ॥ इह हि यः कश्चिद् विपश्चित्प्रचण्डप्रामाणिकप्रकाण्डश्रेणीशिरोमणीयमानः, सर्वाङ्गीणाऽनणीय प्रमाणधोरणोप्रगुणीभवदखण्डपाण्डित्योड्डामरतां स्वात्मनि मन्यमानः, स्वान्यानन्यसमसौजन्यधन्यत्रिभुवनमान्यवदान्यगणाऽवगणनानुगुणानणुतत्तद्भणितिरणरणककरं रणन्निस्समानाभिमान', अप्रतिहतप्रसरप्रवरनिरवद्यसद्यस्कानुमानपरम्पराबोभुवितनिस्तुषमनीपाविशेपोन्मिपन्मनीषिपरिषज्जाग्रत्प्रत्यग्रोदग्रमहीयोमहिमसन्मानः, शतमखगुरुमुखाञ्जविमुखताकारिहारिसर्वतोमुखशेमुपीमुखराऽसङ्ख्यसङ्ख्यावद्विख्यात---- पर्षदि विदिततर्ककर्कशवितर्कणचण' प्रामाणिकग्रामणीः प्रमाणयति, तस्यागस्याहङ्कारप्राग्भारतिरस्काराय चारुविचारचातुरीगरीयश्चतुरनरचेतश्चमत्काराय च किञ्चिदुच्यते । हं हो मनस्विन् । मान्यमनीषिमनोमनोहरविनोदाय प्रशस्तशब्दार्थसार्थविन्याससौवनवोपन्यासप्रोल्लासलीलायितदर्शनाय च यदनुमानमवादि, वादिवृन्दारकवृन्दपुरन्दरेण निष्प्रतिभप्रातिभवता भवता तत्र 'आदौ हेतुना साध्यसिद्धिर्विधेया धीधनेन' इति कृत्वा साध्यमेव किञ्चिद् विचार्यते ।
यथाहि-यदत्र पवित्रानुमाने साध्यमभ्यधायि भाग्यलभ्यसभ्यहर्षप्रकर्षाधायि तत् किं स्वरूपतः सिद्धस्वभावं बोभूयादसिद्धस्वभावं वा न तावदसिद्धस्वभावम् , तस्य हि सकलोपाख्याविकलताविख्यातखरविषाणप्रख्यत्वेन साध्यत्वाऽघटनात् । तथारूपस्यापि साधने सप्रश्रयाश्रयासिद्धेर्दु र्निवारत्वात् । साध्यस्वरूपासिद्धौ चेह हेतो. 'यत्र यत्र साधन तत्र तत्र साध्यम् इत्येवंरूपव्याप्ति. तदुपपत्तिप्रकाशनोपक्रमोऽपि वन्ध्यास्तनंधयभागधेयवर्णनमिव कस्य हास्याय न स्यात् प्रशस्यात्मन । _अथ सिद्धस्वभावमिति मन्येथास्तथापि कि तद् भवत. सिद्धस्वभावमुत सर्वेषां वा ? न तावत् सर्वेषाम् । न हि कोऽपि विकसत्प्रवेकविवेकवाचस्पतिः सर्वेषां सिद्धस्वभावसाध्यसाधनाय चेक्लिश्यते । न हि क्वापि धवलस्य धवलीकरणम् पिष्टस्य पेषणम् चर्वितस्य चर्वण वा केनापि दृष्टमिष्ट वा ।।
अथ भवत इति समतं तर्हि तत्रापि तत् किमभीप्सितं भवेदनभीप्सित वा ? नाऽनभीप्सितम्, यत म्वानभिप्रेते साध्ये साव्यमाने धीमतोऽनित्यत्वसाधने साङ्ख्य
१ पञ्चम्यन्तो लिङ्गप्रतिपादकवचनरूपो हेतु यथा धूमोऽग्नेलिङ्गम् । २ निर्दूषण. ३ श्रेष्ठः ।