________________
जिनमण्डननिबद्धम् त्रौकते । तत्राद्यो नानवद्य' यतः सा यसत्त्वस्य पूर्वमेव प्रतिपादितत्त्रात् । नापि द्वितीयः । न हि कोऽपि प्रामाणिकग्रामणी. प्रमाणाविषयीभूतस्य सान्यस्य प्रमाणविषयीकरणाय रणरणकपरायणो बोभूयते । किञ्च, साध्यस्य प्रमाणाविषयत्वे हेतुप्ररूपणमपि निराश्रयत्वमशिश्रियदेव । न हि क्वापि मातरमन्तरेण सुतरत्नजननमहोत्सव प्रोत्साह्शालिनाम, प्रामं विना वा निस्सीमाभिरामसीमानिवेशव्यवस्था । अथ तृतीयेऽपि साध्यन्यायथार्थत्वं किं प्रमाणनिराकृतत्वेन उत व्यभिचारित्वेन किं वा विसवादित्वेन प्रणिजागयेत । प्रमाणनिराकृतत्वमपि किं तदानीम् कालान्तरे वा ! तदानीमित्यङ्गीकारे 'अनुष्णः कृष्णवा' 'कृतकमाकाशम्' 'शुचि नरशिर कपालम्' इत्यादिवत् प्रमाणादिनिराकृतत्वेन साध्यत्वाऽघटनात् , हेतो. कालात्ययापदिष्टत्वापत्तेश्च निराकृतरचसाध्यधविशंपणताकुट्टिनी पक्षपृष्ठिलग्ना कथं निवारणीया वा । कालान्तरे प्रमाणनिराकृतत्वस्य सम्प्रत्यात्मनामविषयत्वात् । तन्न निराकृतत्वेनाऽयथार्थत्वम् । नापि व्यभिचारित्वम् । तत्रापि कि यत्र यत्र साधनं न तत्र नत्र साध्यमिति देशत. कि वा यदा यढा साधनं न तदा तदा साध्यमिति कालतो वा ? किं चातः । उभयथापि व्यभिचारित्वे हेतोरनैकान्तिकताकलङ्कपङ्कपड्किलत्वं कथमपि न प्रक्षालयितुमल भूयते । किञ्च, भवताऽपि साध्यसाधनयोर्देशकालाभ्यां व्याप्तिप्रकटनपटुतामन[ङ्गीकारात्] व्यभिचारित्वेऽस्य स्वयमेव निराकरिष्यमाणत्वात् । तन्न व्यभिचारित्वम् । विसंवादित्वमपि किं संवादाभावेन वा स्यादुत विरुद्धसंवादेन वा । यद्याद्य. प्रकारः प्रचारकारी तदा हेतोरसिद्धता प्रोद्धतपामरोपरीरम्भारम्भवद् दुर्भगीभावस्य ऋभुविभुनापि पराभवितुमशक्यत्वात्। द्वितीये तु विरुद्धता उद्धतवुभुक्षितराक्षसी साधनस्य कण्ठष्ठिविलग्ना न कथमपि पश्चात्कर्तुं प्रभूयते भूतपतिनापि । तन्न साध्यस्याप्रतीतता सम्भविनी। तदभावे दुरुपपादमेव साध्यम् । तदभावे हेतोर्व्याप्तिवर्णनं सकर्णानां गगनाङ्गणोद्गतप्रगुणारविन्दलीलामनुशीलयत्यविकलां कलाशालिनाम् ।
____ अथ भवतु भवदभिमत यथाकथञ्चित् साध्यम् । न तत्र वयं विवदामहे | परं "विदुषां वाच्यो हेतुरेव हि केवल" [प्रमाणवा० ३,२६] सायसिद्धिनिवन्धनमिति कृत्वा सोऽपि कञ्चिद्विचारपदवीमधिरोप्यते । तथाहि—स कि भवन्निरूपितो हेतु सकलकलाशालित्वान्त.समीहितसल्लक्षणपुरस्कृत' स्यादाहोस्वित् परोलक्षदक्षविक्षेपितलक्षणवैमुख्यसमालिङ्गितो वा ८ इति पक्षोभयो । तत्र यदि द्वितीया भित् तर्हि हेतोर्निर्लक्षणत्वेन साध्यसिद्धावकिञ्चित्करत्वात् । अकिञ्चित्करस्य च कार्यसिद्धावनादरणीयत्वात् । न हि कोऽपि प्रामाणिकीभूय भूयः प्रामाणिकसभायां निर्लक्षणत्वेनाकिञ्चित्कर हेतुमभिदधीत । अथ प्रथमा भिदा यदा प्रतीतिपथातिथीक्रियते तदा निशिततरदुर्द्धरधारो