________________
हेतुविडम्बनस्थलम् । द्भुरातिवक्रचक्रकनिपातनिर्दलितमस्तकत्वान्नोच्छ्वसितुमप्युत्सहते । तथाहि-हेतुः स्वात्मनः सिद्धिसौधाधिरोहाय साक्षादक्षामलक्षणप्रणयितामपेक्षते, लक्षणं च व्याप्तिप्राप्तिम्, व्याप्तिरपि हेतुम्, हेतुश्च लक्षणम् , लक्षणं च व्याप्तिम् , व्याप्तिरपि हेतुम् , हेतुश्च लक्षणमित्यावर्तः प्रवर्ततेऽत. स्फुट एव सर्वतो धारालकरालचक्रकप्रचार सुरेश्वरगुरुणापि प्रणागयितुमशक्यत्वात् । तथा हेतुः स्वसिद्धये लक्षणमुखप्रेक्षितामवलम्बते, लक्षणमपि स्वसिद्धयर्थं व्याप्तिद्वारा हेतुमिति दुरुत्तरेतरेतराश्रयोऽपि सप्रश्रयं पृष्ठिलग्नो न मनागपि विश्रामाय मनो वितनोति ।
अथ बोभूयतां सतां माननीयो युष्मदीयो हेतुरयं कथमपि लक्षणलक्षितः । परं किं तल्लक्षण लक्षण ः प्रज्ञाप्यते प्रज्ञाऽवज्ञातपुरुहूतसूरिभिः । अथ निश्चितव्याप्तिमल्लिङ्गमिति तल्लक्षणमिति चेत् ननु केयं व्याप्ति' ? निश्चिताविनाभाव एव व्याप्तिरिति चेत् तर्हि कोऽयमविनाभाव. १ कि साधनसद्भावे साध्यसद्भाव इत्यन्वयरूपः केवलः प्ररूप्येत, किं वा 'साध्याभावे साधनाभाव इति केवलव्यतिरेकस्वरूप', उतोभयथा वा ? इति कल्पनात्रितयी प्रगुणगुणत्रयीव सर्वत्राप्रतिहतप्रसरा प्रसरीसरीति । तत्र तावदाद्या हृद्या न विद्यावतां हृदि, यतः केवलव्यतिरेकिणो हेतोरहेतुत्वप्राप्तेः । केवलव्यतिरेकिणोऽन्वयित्वेन पक्षादन्यत्रापि सद्भाचे केवलव्यतिरेकित्वायोगात् । केवलान्वयिरूपाविनाभावादेव व्याप्तिसमाप्तौ 'सात्मकं जीवच्छरीरं प्राणादिमत्त्वात्' इत्यादि केवलव्यतिरेक्यनुमानानां 'पर्वतोऽयं वह्निमान् धूमात्' इत्याद्यन्वयव्यतिरेक्यनुमानाना [च] प्रामाण्यप्राणव्यपरोपणपापसन्तापः कथं शान्ति प्रापणीयः । नापि द्वितीया, केवलान्वयिनि हेतावव्याप्तिप्राप्तेः । न हि केवलान्वयिनः क्वापि साध्याभावसाधनाभावी सम्भवतः । साध्यसाधनयोः क्वाप्यभावे च सकलवस्तुनिष्ठत्वलक्षणस्य केवलान्वयित्वस्य निरूपयितुमशक्यत्वात् । नापि तृतीया अद्वितीयानन्दाय । अन्वयव्यतिरेकिणि तत्सद्भावेऽपि केवलान्वयिनः केवलव्यतिरेकिणश्च प्रत्येक तदभावात् । एवं च केवलान्वयि-केवलव्यतिरेकिहेत्वोः प्रामाण्यं सकलप्रमाणशास्त्रोक्तं कथं निर्वाहणीयम् ।
किञ्च, भवतु निश्चिताविनाभावो हेतुलक्षणम् परम् अविनाभावनिश्चयोऽपि दुरुपपाद । तथाहि-अविनाभावो हि साध्यसाधनयोः परस्पर सार्वत्रिकदेश-सार्वदिककालाऽव्यभिचारित्वम् । तन्निर्णयश्च साम्प्रतं सर्वज्ञमन्तरेणेतरेण कर्तुं न पार्यते । न हि कतिषुचिद् व्यक्तिपु कदाचित् साध्य[साध]नयोरव्यभिचारित्वोपलब्धावपि सार्वदिकः सार्वत्रिकश्च तथाभाव' सम्भावयितुमपि शक्य । कुत्रचित्कदाचिदन्यथाभावोऽपि विभाव्यत एव गोपालघटी-शक्रमूर्धादौ धूमसद्भावेऽपि वहेरनुपलम्भात् । तन्न निश्चिताविनाभावो हेतोर्लक्षणत्वेन प्ररूपणीयो निपुणशिरोमणिभिः ।