Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 100
________________ ७२ जिनमण्डननिवद्धम् अथ सव्याप्तिकमिति सङ्गीर्यते मर्यादावर्यैः, तत्रापि व्याप्तिः सामान्यात्मकसाधनस्य साध्येन सह प्रोच्यमाना कि सामान्यात्मकेनोच्येत किं विशेषात्मकेन वा ? न तावद् विशेषात्मकेनेति कल्पना कल्पनाही । सामान्यात्मकसाधनेन सह विशेषात्मकसाध्यस्य सम्बन्धासम्भवेन व्याप्तेर्निर्मूलत्वात् । तथाहि-विशेषात्मकसाध्यस्य स्वाश्रयमात्रानुयायित्वेनान्यत्राऽनुगमाविधायकत्वात् 'यत्र यत्र साधनं तत्र तत्र साध्यम्, तदभावे न क्वापि साधनमुपलभ्यते' इत्येवरूपेण सर्वविषयिणी व्याप्तिः सम्भावयितुमपि न शक्यते किं पुनर्दयितुम् । व्याप्तिर्हि प्रवर्तमाना सर्वोपसहारेणैव प्रवरीवृत्यते । न हि विशेषात्मकसाध्यस्य सर्वापसहार' सर्वोपकल्पान्तेऽपि कल्पयितुं पार्यते । तथात्वे च हेतोः सन्दिग्धासिद्धतादुर्भगभामिनीकलङ्ककालिमोल्लासः प्रादुरासेव । अथ सामान्यात्मकसाध्येनेति मुख्यपक्षः सख्यावद्भिराख्यायते स्वख्यातये; तत्रापि सामान्यात्मकयोः साध्य-साधनयोर्व्याप्तिर्जायमाना निस्समानाभिमानरतैः किं नियतव्यक्तिमात्रनिष्ठयो कि वा अनियतव्यक्तिप्रतिष्ठितयोः प्रतिष्ठाप्येत प्रष्टप्रतिष्ठागरिष्ठैः । यदि प्रथमोऽभ्युपगम्यते रम्यसम्यगमतिसीमन्तिनीकमनीयपरिष्वगरगसङ्गिभिस्तर्हि सर्वोपसंहारव्याप्तिप्रकारसारकेल्पकारस्करमूले निहित एव निशिततरधारकुठारप्रहार स्वयमेव । न हि नियतव्यक्त्याश्रितयोरनियतव्यक्त्याश्रयणं क्वापि सम्भावनीयम् । न हि गृहाभ्यन्तरकोणकस्थितयोर्देवदत्त-यज्ञदत्तयोस्त्रिभुवनभवनव्यापित्वम् । नापि च नियतव्यक्तिनिष्ठयोः साध्यसाधनयोः प्रतिबन्धमात्रसिद्धौ सार्वत्रिकविकसत्प्रतिवन्धसिद्धिः । तदभावे च हेतो. संदिग्धासिद्धत्वं स्फुटमेव । यदि प्रतिनियतप्रतिवन्धसिद्धौ साधनानि साध्यसाधनाय परिकल्प्यन्ते जल्पजल्पाकैस्तदा 'अनुष्णोऽग्निर्दाहकत्वाद्धिमवत् , मथनजन्यत्वात् म्रक्षणवत् वा' इत्यादीन्यपि साधनानि सम्यक्साधनत्वश्रियं संश्रयेयुः । न चैतद् विलोक्यते । तन्न प्रतिनियतव्यक्त्याश्रितयोर्व्याप्तिः साधीयसी । __ अथैतद्भीतैरनियतव्यक्त्याश्रितयोः सामान्यात्मकसाध्यसाधनयोाप्तिरुरीक्रियते, तत्रापि किं तयोः परस्परं प्रतिबन्धप्रतिवद्धयोरप्रतिबद्धयोर्वा व्याप्तिरिति द्विपक्षी बुभुक्षितराक्षसी साक्षाद्भवन्ती न कथमपि भवत्पक्षभक्षणमन्तरेणाक्षामकुक्षिः सम्पनीपद्यते सद्यः । यद्यप्रतिवद्धयोरिति भेदः प्रादुष्क्रियते तदा प्रसह्य सह्य-विन्ध्ययोरिव दास-चक्रीवतोरिव वा कस्तयोर्व्याप्तिविधानमनोरथ.।। ___ अथ प्रतिबन्धप्रतिबद्धयोरित्युद्घोष्यतेऽप्रतिघोषप्रतिभासितस्वान्तवृत्तिभिस्तत्रापि कस्तयोः सामान्यात्मकयोः प्रतिवन्धो निस्सम्बन्धवान्धवेन श्रीमताऽभिधीयते किं तादात्भ्यम् ? किं वा तदुत्पत्ति. १ उताहो समवाय. ? किंस्वित् साध्यसाधनभावो वा ? १. कल्पकारस्कर. कल्पवृक्षः।

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193