Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 101
________________ ७३ हेतु विडम्बनस्थलम् तत्र न तावत् तादात्म्यावतारः सुखोत्तारः, साध्यसाधनयोः सर्ववादिभिर्निर्विवादं भेदेनैवोररीचरीकृतत्वात् । तयोः सिद्धासिद्धस्वरूपयोस्तादात्म्योपपत्तेर्नि:जत्वात् । तादात्म्ये ह्यभ्युपगते साध्यं साधनं वेकतरमेव भवेन्न तु पृथक् द्वयम् । तथा च, साध्योपन्यासे साधनोपन्यासस्य साधनोपन्यासे साध्योपन्यासस्य च स्वयमेव सिद्धत्वाद् न हि नाम कोपि छेको जनः पृथक् साधनोपन्यासप्रयासमाशेश्लिष्यते । एवं च सति निर्मायन्यायोपायशालिसकलकुशलकुलविदितातुलविमलानुमानावयवपञ्चकव्यवस्थाविलोपपापव्यापारोऽपार एव शास्त्रपारावारपारीणानाम् । तन्न तादात्म्यं सुघटघटाकोटिसण्टकमाटीकते ।। . नापि तदुत्पित्तिरपि , सदुपपत्तिसम्पत्ति बाभक्ति । तथाहि-तदुत्पत्ती सत्या किं साधनात् साध्योत्पत्तिः १ किं वा साध्यात् साधनोत्पत्तिः ? न भवेत् साधनात् साध्योत्पत्ति' तदाहि साध्यस्य साधननियतत्व स्यान्न साधनस्य साध्यनियतत्वम् । ततश्च साधनादविनाभावपुरस्सरसाध्यावधारणवर्णनामकर्णानां नभोऽम्भोजराजिविराजिसौरभ्यलीलामविकलमाकलयेदेव । अथ साध्यात् साधनोत्पत्तिरूपाऽपि तदुत्पत्तिः किमसार्वत्रिकी सार्वत्रिकी वा सोसूत्र्यते स्वतन्त्रेण भवता । न तावदसार्वत्रिकी पवित्रीभा[व]नां वरीभर्ति । यतो न नियततदुत्पत्तिप्रतिबन्धमात्रसिद्धौ सार्वत्रिकस्तथाभाव' सम्भाव्यः साध्यसाधनयोः । तमन्तरेणापि 'ब्राह्मणोऽय पित्रोर्ब्राह्मणत्वात् , पुष्पिता आम्राः पुष्पितैकाम्रदर्शनात् , विकसितानि कुमुदानि कुमुदवान्धवोदयात्' इत्यादीनां भूयसामप्यनुमानानां सत्यतया विलोक्यमानत्वात् । तत् प्रतिनियततदुत्पत्तिप्रतिबन्धमात्रप्रतिबद्धयोः साध्यसाधनयोरनुमानाङ्गत्वे को विश्वासः ? नापि सार्वत्रिकी तदुत्पत्तिः । तस्याः सर्वानुमानेष्वविद्यमानत्वात् । यदि तु तदुत्पत्तिरेव केवला साध्यसाधनयोः प्रतिबन्धसिद्धाङ्गत्वेन स्वीक्रियते तदा पूर्वचरोत्तरचरादिहेतूनामहेतुत्वं न. प्रतिहन्येत । तेषां तदुत्पत्तः(त्तेः) क्वाप्यदृश्यमानत्वात् । तन्न तदुत्पत्तिसम्बन्धोऽपि सानुबन्धः । नापि समवायो । निर्मायविद्वज्जनसमवायरञ्जनाय सञ्जायते । तस्य जगद्व्यापकत्वेन नियतैकस्वभावत्वेन च सर्वत्र तुल्यत्वान्न हि प्रतिनियतसाध्येन सह साधनस्य सम्बन्धकत्वम् किन्तु विपक्षादिभिरपि, तथात्वे च विपक्षवृत्तेरपि सम्भवेन प्रसरिसत्येव स्फूर्तिमदनैकान्तिकत्वम् । भवतु वा समवायः, परं किंलक्षण ? "अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः" इति चेत् तयं साध्यसाधनयो. स्वप्नेऽपि विचार्यमाणो न सण्टककोटिकोटीरतामटाट्यते । १० ।

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193