________________
७३
हेतु विडम्बनस्थलम् तत्र न तावत् तादात्म्यावतारः सुखोत्तारः, साध्यसाधनयोः सर्ववादिभिर्निर्विवादं भेदेनैवोररीचरीकृतत्वात् । तयोः सिद्धासिद्धस्वरूपयोस्तादात्म्योपपत्तेर्नि:जत्वात् । तादात्म्ये ह्यभ्युपगते साध्यं साधनं वेकतरमेव भवेन्न तु पृथक् द्वयम् । तथा च, साध्योपन्यासे साधनोपन्यासस्य साधनोपन्यासे साध्योपन्यासस्य च स्वयमेव सिद्धत्वाद् न हि नाम कोपि छेको जनः पृथक् साधनोपन्यासप्रयासमाशेश्लिष्यते । एवं च सति निर्मायन्यायोपायशालिसकलकुशलकुलविदितातुलविमलानुमानावयवपञ्चकव्यवस्थाविलोपपापव्यापारोऽपार एव शास्त्रपारावारपारीणानाम् । तन्न तादात्म्यं सुघटघटाकोटिसण्टकमाटीकते ।।
. नापि तदुत्पित्तिरपि , सदुपपत्तिसम्पत्ति बाभक्ति । तथाहि-तदुत्पत्ती सत्या किं साधनात् साध्योत्पत्तिः १ किं वा साध्यात् साधनोत्पत्तिः ? न भवेत् साधनात् साध्योत्पत्ति' तदाहि साध्यस्य साधननियतत्व स्यान्न साधनस्य साध्यनियतत्वम् । ततश्च साधनादविनाभावपुरस्सरसाध्यावधारणवर्णनामकर्णानां नभोऽम्भोजराजिविराजिसौरभ्यलीलामविकलमाकलयेदेव । अथ साध्यात् साधनोत्पत्तिरूपाऽपि तदुत्पत्तिः किमसार्वत्रिकी सार्वत्रिकी वा सोसूत्र्यते स्वतन्त्रेण भवता । न तावदसार्वत्रिकी पवित्रीभा[व]नां वरीभर्ति । यतो न नियततदुत्पत्तिप्रतिबन्धमात्रसिद्धौ सार्वत्रिकस्तथाभाव' सम्भाव्यः साध्यसाधनयोः । तमन्तरेणापि 'ब्राह्मणोऽय पित्रोर्ब्राह्मणत्वात् , पुष्पिता आम्राः पुष्पितैकाम्रदर्शनात् , विकसितानि कुमुदानि कुमुदवान्धवोदयात्' इत्यादीनां भूयसामप्यनुमानानां सत्यतया विलोक्यमानत्वात् । तत् प्रतिनियततदुत्पत्तिप्रतिबन्धमात्रप्रतिबद्धयोः साध्यसाधनयोरनुमानाङ्गत्वे को विश्वासः ? नापि सार्वत्रिकी तदुत्पत्तिः । तस्याः सर्वानुमानेष्वविद्यमानत्वात् । यदि तु तदुत्पत्तिरेव केवला साध्यसाधनयोः प्रतिबन्धसिद्धाङ्गत्वेन स्वीक्रियते तदा पूर्वचरोत्तरचरादिहेतूनामहेतुत्वं न. प्रतिहन्येत । तेषां तदुत्पत्तः(त्तेः) क्वाप्यदृश्यमानत्वात् । तन्न तदुत्पत्तिसम्बन्धोऽपि सानुबन्धः ।
नापि समवायो । निर्मायविद्वज्जनसमवायरञ्जनाय सञ्जायते । तस्य जगद्व्यापकत्वेन नियतैकस्वभावत्वेन च सर्वत्र तुल्यत्वान्न हि प्रतिनियतसाध्येन सह साधनस्य सम्बन्धकत्वम् किन्तु विपक्षादिभिरपि, तथात्वे च विपक्षवृत्तेरपि सम्भवेन प्रसरिसत्येव स्फूर्तिमदनैकान्तिकत्वम् । भवतु वा समवायः, परं किंलक्षण ? "अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः" इति चेत् तयं साध्यसाधनयो. स्वप्नेऽपि विचार्यमाणो न सण्टककोटिकोटीरतामटाट्यते ।
१० ।