________________
७२
जिनमण्डननिवद्धम् अथ सव्याप्तिकमिति सङ्गीर्यते मर्यादावर्यैः, तत्रापि व्याप्तिः सामान्यात्मकसाधनस्य साध्येन सह प्रोच्यमाना कि सामान्यात्मकेनोच्येत किं विशेषात्मकेन वा ? न तावद् विशेषात्मकेनेति कल्पना कल्पनाही । सामान्यात्मकसाधनेन सह विशेषात्मकसाध्यस्य सम्बन्धासम्भवेन व्याप्तेर्निर्मूलत्वात् । तथाहि-विशेषात्मकसाध्यस्य स्वाश्रयमात्रानुयायित्वेनान्यत्राऽनुगमाविधायकत्वात् 'यत्र यत्र साधनं तत्र तत्र साध्यम्, तदभावे न क्वापि साधनमुपलभ्यते' इत्येवरूपेण सर्वविषयिणी व्याप्तिः सम्भावयितुमपि न शक्यते किं पुनर्दयितुम् । व्याप्तिर्हि प्रवर्तमाना सर्वोपसहारेणैव प्रवरीवृत्यते । न हि विशेषात्मकसाध्यस्य सर्वापसहार' सर्वोपकल्पान्तेऽपि कल्पयितुं पार्यते । तथात्वे च हेतोः सन्दिग्धासिद्धतादुर्भगभामिनीकलङ्ककालिमोल्लासः प्रादुरासेव ।
अथ सामान्यात्मकसाध्येनेति मुख्यपक्षः सख्यावद्भिराख्यायते स्वख्यातये; तत्रापि सामान्यात्मकयोः साध्य-साधनयोर्व्याप्तिर्जायमाना निस्समानाभिमानरतैः किं नियतव्यक्तिमात्रनिष्ठयो कि वा अनियतव्यक्तिप्रतिष्ठितयोः प्रतिष्ठाप्येत प्रष्टप्रतिष्ठागरिष्ठैः । यदि प्रथमोऽभ्युपगम्यते रम्यसम्यगमतिसीमन्तिनीकमनीयपरिष्वगरगसङ्गिभिस्तर्हि सर्वोपसंहारव्याप्तिप्रकारसारकेल्पकारस्करमूले निहित एव निशिततरधारकुठारप्रहार स्वयमेव । न हि नियतव्यक्त्याश्रितयोरनियतव्यक्त्याश्रयणं क्वापि सम्भावनीयम् । न हि गृहाभ्यन्तरकोणकस्थितयोर्देवदत्त-यज्ञदत्तयोस्त्रिभुवनभवनव्यापित्वम् । नापि च नियतव्यक्तिनिष्ठयोः साध्यसाधनयोः प्रतिबन्धमात्रसिद्धौ सार्वत्रिकविकसत्प्रतिवन्धसिद्धिः । तदभावे च हेतो. संदिग्धासिद्धत्वं स्फुटमेव । यदि प्रतिनियतप्रतिवन्धसिद्धौ साधनानि साध्यसाधनाय परिकल्प्यन्ते जल्पजल्पाकैस्तदा 'अनुष्णोऽग्निर्दाहकत्वाद्धिमवत् , मथनजन्यत्वात् म्रक्षणवत् वा' इत्यादीन्यपि साधनानि सम्यक्साधनत्वश्रियं संश्रयेयुः । न चैतद् विलोक्यते । तन्न प्रतिनियतव्यक्त्याश्रितयोर्व्याप्तिः साधीयसी ।
__ अथैतद्भीतैरनियतव्यक्त्याश्रितयोः सामान्यात्मकसाध्यसाधनयोाप्तिरुरीक्रियते, तत्रापि किं तयोः परस्परं प्रतिबन्धप्रतिवद्धयोरप्रतिबद्धयोर्वा व्याप्तिरिति द्विपक्षी बुभुक्षितराक्षसी साक्षाद्भवन्ती न कथमपि भवत्पक्षभक्षणमन्तरेणाक्षामकुक्षिः सम्पनीपद्यते सद्यः । यद्यप्रतिवद्धयोरिति भेदः प्रादुष्क्रियते तदा प्रसह्य सह्य-विन्ध्ययोरिव दास-चक्रीवतोरिव वा कस्तयोर्व्याप्तिविधानमनोरथ.।।
___ अथ प्रतिबन्धप्रतिबद्धयोरित्युद्घोष्यतेऽप्रतिघोषप्रतिभासितस्वान्तवृत्तिभिस्तत्रापि कस्तयोः सामान्यात्मकयोः प्रतिवन्धो निस्सम्बन्धवान्धवेन श्रीमताऽभिधीयते किं तादात्भ्यम् ? किं वा तदुत्पत्ति. १ उताहो समवाय. ? किंस्वित् साध्यसाधनभावो वा ? १. कल्पकारस्कर. कल्पवृक्षः।