________________
हेतुविडम्बनस्थलम् ।
७१ त्रिवलीव तरलाक्षीणामुन्मीलति । न तत्र पौरस्त्यः प्रशस्तस्वस्तिदायी । पक्षमात्रनिष्ठत्वे हि हेतोः साधनविकलतादुमीह(दुर्महि)ला दृष्टान्तगलावलम्बिनी कथं विश्लेषणीया । न हि पक्षमात्रनिष्टं साधनमन्यत्रनिष्ठमिति वक्तुं युक्तं निर्णिक्तयुक्तिसंयुक्तातिव्यक्तचेतसां सुमेधसाम् । तथा चान्वयव्याप्तिमूल• केवलान्वयी क्व च प्रवर्तेत ? नापि द्वितीयः, हेतो. सपक्षमात्रनिष्ठत्वे हि पक्षधर्मताया अयोगात् । तदयोगे च हेतोरसिद्धतासमुद्धतबन्धुकीसम्पर्ककलङ्कपङ्कपकिलत्वमनिर्गलं कथं प्रक्षालनीयं निर्मलबहुलनीतिलीलायितसुकुमारहृदयैः । अथान्त्यपक्षोऽपि साक्षादन्त्यजजातिरिव त्याज्य एव ज्यायोवृत्तीनाम् । यतस्तत्र किं यदेव पक्षे तदेव सपक्षे किं वाऽन्यदेवेति कल्पनायुगली मञ्जुलकलमरालयुगली[व] विमलीभावं कलयन्ती कं लयन्ती [ती]वं प्रगुणयत्येव गुणज्ञगणचित्ताङ्गणेषु । तत्र यद्यन्यदेवेति कल्पना कल्पनामार्गगामिनी तदा पूर्वसञ्चारिताऽनवारितप्रसरसाधनविकलता-पक्षधर्मताऽभावरूपदोषमषीकालुण्यपोषः स्वान्तःसन्तोषशोषाय विशेषज्ञानां समुन्मिपत्येव । अथ यदेव पक्षे तदेवेत्यादिकल्पना परिकल्प्यतेऽनल्पजल्पाकैः तदा सततानुवृत्तिप्रत्ययोत्पादकत्वेन सामान्यरूपतापत्तेर्विशेषात्मकसाधनाय प्रादायि स्वहस्तेन जलाञ्जलिः प्राञ्जलहृदय । विशेषात्मकस्य स्वाश्रयमात्रनिष्ठत्वेन सर्वतोन्यावृत्तिप्रत्ययस्वभावत्वेन चोभयनिष्टतायाः स्वप्नेऽप्यसम्भवात् । तन्न विशेषात्मकत्वं हेतोः सहेतुक हेतुज्ञै. प्रज्ञापयितुं शाशक्यते ।
__ अथ सामान्यात्मकमिति न द्वैतीयीकोऽपि कल्पः सश्रीकतयाऽधिरूढातिप्रौढतममनोपिमान्यतामधिगच्छति । यतस्तत्रापि किं परसामान्यात्मकम् अपरसामान्यात्मकं वा साधनं स्यात् । तत्र यदि परसामान्यात्मकमिति पक्ष स्वपक्षीकरिष्यते दक्षैस्तदा तस्य विश्वव्यापित्वेन निरवशेषव्यक्तिनिष्ठत्वापत्तिरनवारितप्रसरा । तथात्वे च विपक्षवृत्तेरपि सम्भवेन हेतोरनैकान्तिकत्वं विकसितमेव ।
अथ एतद्भयादपरसामान्यात्मकमित्युच्यते रुच्यवचोवैचित्रीचञ्चुभिः, तत्रापि किं तत्साधन साध्येन साकं सव्याप्तिकं स्यात् , अव्याप्तिकं वेति विकल्पयामलमविरललुलल्लोलकल्लोललीलायितमनुशीलयत् प्रतिकलमुन्मीलति । तत्र यदि अव्याप्तिकमिति परिकल्प्यते तदा अतिप्रसगरगदुत्तुङ्गचङ्गरगाचार्यों न मनागपि स्वरगतिमसङ्गतिमारोपयति । व्याप्तिप्राप्तितिरस्कृतसाधनात् साध्यव्यवस्था स्थेयसी यद्यङ्गीक्रियते तदा 'धवलः प्रासादः काकस्य कार्य्यात्', 'नित्यः शब्दः कार्यत्वात्', 'अनित्य' शब्दश्चाक्षुषत्वात्' इत्यादयोऽपि सभ्यग्घेतुतामाश्रयन्तः केन तिरस्करणीया भवेयु. १ ।