________________
७०
जिनमण्डननिवद्धम्
सम्पनीपद्यन्ते सद्यस्कतादृशामलसकलकेवलज्ञानलीलां विना । न द्वितीयोऽपि प्रतीतप्रीतये सजायेत, दुरावारव्यभिचारपिशाचदुःसञ्चारपुरस्कृतत्वात् । न ह्येकेन नोपलब्ध किमेतावता सर्वैरपि नोपलभ्यत इति रीतिरस्ति प्रशस्तनीतिनिपुणानाम्, अन्यथाऽन्धेनैकेन न त्रिभुवन दृष्टं तथाऽन्यैरपि न दृष्टं भवेत् । न हि नागरिकनरेण गवयो नोपलब्ध इत्येतावता ग्रामीणोपलब्धगवयस्यापलापः क्वापि प्राप्यते । तृतीयकल्पोऽपि नानल्पः । न हि केनापि सार्वत्रिकी योग्यानुपलब्धिरिष्टा दृष्टा वा । तस्याः सर्वत्र सर्वदा नियततयैवोपलभ्यमानत्वात् । यदुक्तं लीलावतीकारेण
"सर्वादृण्टेश्च सदेहात् स्वादृष्टेयभिचारत । योग्यादृष्टेरसत्त्वाच्च प्रतिबन्धो न सिध्यति ॥" [ ] तन्नाऽभावप्रमाणेन व्याप्तिनिश्चयः ।
न तर्कोऽपि व्याप्तिविनिश्चयविधौ सावधानी, तर्कस्यापि व्याप्तिमूलत्वेनेतरेतराश्रयाद्यापत्तेः । तथाहि-व्याप्तिसिद्धौ व्याप्तिमूलतर्कसिद्धिस्तत्सिद्धौ च व्याप्तिसिद्धिरित्यन्योन्याश्रय. । व्याप्तिनिश्चयसिद्धौ तर्कापेक्षणम् । तर्कसिद्धौ चापरतापेक्षणम् । तत्र चापरतर्कापेक्षणम् । तत्र चापरतान्तरापेक्षणमित्यनवस्था वेति । किञ्च, यत् साधनं तत् साध्यपूर्वकमिति व्याप्तौ सिद्धायां यदकारणपूर्वकं तत् सदा स्यान्न स्याद् वा इति तर्केण प्रसङ्ग प्रोद्भाव्यते । न चाद्यापि व्याप्तिः सर्वसाध्यसाधनव्यक्तीना सिद्धिसौधमध्यास्त इति तोऽपि न व्याप्तिव्यवसायविधाने सातिशय । तन्न साध्यसाधनप्रतिबन्धावबोध प्रमाणाधीनः साधीयो मेधाधारिभिर्विधीयते ।
किञ्च, साध्यसिद्धयै साधनं यदभ्यधायि तत्कि विशेषात्मक स्यादुताहो सामान्यात्मकं वेति कल्पनोभयो । तत्र नानिमा समग्रोदग्रप्रत्यग्रधीमतां सम्मता । यतो विशेषात्मकत्वे साधनस्याभ्युपगम्यमाने नियतैकव्यक्तिनिष्ठत्वेनासाधारण्यस्वभावत्वात् । तथात्वे चानुवृत्तिप्रत्ययाजनकत्वेन साधनस्य सकलदेशकालकलापव्यापिसर्वोपसंहारव्याप्त्यनुपपत्ते । या हि पक्षा दिव्यक्तिविभागमन्तरेणापि समस्तसजातीयव्यक्तिसाधारण्येन व्याप्ति प्रदश्यते सा सर्वोपसंहाव्याप्तिः । तस्याश्च स्वाश्रयमात्रानुयायितया विशेषरूपसाधनस्याङ्गीकृते वाड्मात्रत्वात् । व्याप्तेरनुपपत्तो च साध्यसाधनयोः प्रतिवन्धाऽसिद्धि. । तदसिद्धौ च साधनात् साध्यसिद्धिमनोरथो नपुसकादपत्यप्रसववाञ्छानुकारी।
अथ दुर्वलं वादिन दृष्ट्वाऽभ्युपगम्याऽपि ब्रूमहे-भवतु विशेषात्मकं साधनं परं तत् कि पक्षमात्रनिष्ठं वा सपक्षमात्रनिष्ठं वा पक्षसपक्षोभयमात्रनिष्ठ वेति विकल्पत्रितयी