________________
हेतुविडम्बनस्थलम् । अथ भवताद् वा भवतामभिमता साध्यसाधनव्यक्त्यादीनां यथाकथञ्चिद् व्याप्ति. परं परस्परं साध्यसाधनयोः सा भवन्ती प्रमाणेन निश्चयपदवीमाप्यते प्रामाणिकप्रकाण्डेरन्यथा वा ? न तावदन्यथाऽतिप्रसक्तेरविश्वासाच्च । तथा च कुमारिल ---
प्रमाणवन्त्यदृष्टीनि कल्प्यानि सुबहून्यपि । वालाग्रशतभागोऽपि न कल्प्यो निष्प्रमाणकः ॥ [ तन्त्रवा० २.१.२.५ ]
अथ प्रमाणेन । तत्रापि कि प्रत्यक्षेण १ किं वानुमाने[न] २ उताऽर्थापत्त्या ३ आहोस्विदभावप्रमाणेन ४ अथ किं वा तर्केण ५ इति स्फुरदनल्पजल्पोल्लासिनी विकल्पपञ्चतयी समग्रप्रतिपक्षपक्षविक्षेपदक्षा साक्षात् प्रत्यक्षीबोभोति ।
___ न हि तत्राध्यक्षेण व्याप्तिनिर्णयः क्वापि कर्तुं पार्यते श्रीमदाथैः । न हि सकलव्यक्तिवर्गनिष्ठस्यगन्वयस्य व्यतिरेकस्योभयस्य वा प्रत्यक्षत्वमसर्वज्ञस्य सम्भवति । तत्प्रत्यक्षत्वे वाऽनुमानप्रवृत्तेर्वैयर्थ्यप्राप्तेः स्पष्टमेव निष्टड्क्यमानत्वात् सर्वस्य सार्वज्ञप्राप्तेश्च ।
नाप्यनुमानेन, सततावस्थानानवस्थानदौस्थ्यप्राकट्यस्य पटुतमपाटूपटकोटिभिरपि विघट्टयितुमशक्यत्वात् । व्याप्तिनिर्णयमन्तरेणानुमानानुदये तत्तद्व्याप्तिनिश्चायकविकसदनुमानपरम्पराया दुर्निरूपत्वात् ।
अर्थापत्तिरपि न पृथक् सार्थकत्वेन प्रार्थनीया पृथुतमयशोविशालैस्तस्यास्तत्त्वतोऽनुमानानतिरेकित्वात् । अथ कदाचिदतिरेकोऽपि विवेकोपगतैरभ्युपगम्यते तदाऽर्थापत्त्यैवानुमानावसेयार्थाधिगमादनुमानस्य दुरापास्तत्वात् । तथाहि -- साध्यसद्भावाभावे साधनस्यानुपपत्तिरिहार्थापत्तिः सततप्रसत्तिशालिभिरभ्युपगता । तथा च तयैवानुपपत्त्या लिङ्गिनोऽविनाभावाधिगतौ किं पश्वात्कृतक्षौरनक्षत्रपरीक्षासदृक्षणानुमानेन प्रयोजनम् ।
नाप्यभावो व्याप्तिप्रादुर्भावविभावनप्रभु । स ह्येवं प्रमाणीक्रियते प्रामाणिकप्रवेकै - 'यदि साधनं विनापि साध्यं स्यात् तदा साध्यं विना क्वापि साधनोपलम्भोऽपि भवेत् , न भवति च कुत्रापि साध्यविनाकृतसाधनोपलम्भ' तस्मान्न साधन साध्यव्यतिरेकेण' इति । एतच्च प्राञ्चच्चेतोवृत्तिभिर्विचार्यमाण न चारुतामञ्चति । तथाहि-किं सर्वेपामसौ व्यभिचारानुपलम्भः प्रादुर्भावमाविभर्ति किं वाऽनुमानकर्तुरनुपलम्भ उत योग्यानुपलम्भो वा भवेदिति भेदत्रयी त्रिपथगाप्रवाहत्रयीव जगत्त्रयीं पवित्रयन्ती त्रोकते । न तावदाद्यो निरवद्यो विद्योतते , सर्वप्रमातृणां व्यभिचारानुपलम्भस्य निश्चेतुमशक्यतया संशयाऽनतिवृत्तेः । न हि क्वाप्याग्दृशा सुदृशामपि समग्रप्रमातृमानसवृत्तय प्रत्यक्षा.