Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
७४
जिनमण्डननिवद्धम् तथाहि युतसिद्धः पृथगवस्थिति सा ययोर्नास्ति तौ तथा तयोः सम्बन्धः समवायः । न चायं सर्वदा युतसिद्धयो' साध्यसाधनयोः साधीयान् । तन्न समवायोऽपि साध्यसाधनयोरनुबन्धविधायक' ।
साध्यसाधनभावसम्बन्धोऽपि न परस्परं साध्यसाधनयो सम्बन्धाधायकः । यतः सोऽपि तयोः किमेकाश्रयाश्रितयो. किं वा विभिन्नाश्रयाश्रितयोरित द्वयी गतिः । तत्राद्यायां गतौ किं पक्षकाश्रयसश्रितयोः किं वा सपकाश्रयसश्रितयोः प्रतिष्ठाप्येत ? किञ्चात. पक्षद्वयेऽपि 'यत्र यत्र साधनं तत्र तत्र साध्यम्' इति सोपसंहारव्याप्तिमहासल्या. प्राणहत्यापापारोप. शिरसि सरसिरुहारोह इवायातः कथं पश्चात्क्रियते विपश्चिच्चाणाक्यैः । सार्वत्रिकव्याप्त्ययोगे क्व नामानुमानाड्कुरप्ररोहः सर्वथा नि:जत्वात् । किञ्च, पक्षसपक्षरूपैकैकाश्रयाश्रितत्वे साध्यसाधनयोः शेत्रीयमाणे यथाक्रम पक्षधर्मतावैधुर्यजर्जरितत्वेन साधनस्यासिद्धतागाधनिश्शङ्कशाकिनीविकासितसततातङ्कः गड्कुवद् हृदये निहितः कथमुत्तारणीयः । निदर्शनस्योभयविकलताऽविकलकलवितदुर्ललनासगतिमालिन्यं च कथं निर्वालनीयं स्यात् ? एकव्यक्त्याश्रितत्वाभ्युपगमे गोशृङ्गयोरिव जीवस्थामूर्तत्वज्ञानवत्त्वयोरिव वा किं कस्य साध्यं साधकं वा भवेत् , तथा च साध्यसाधनभावसम्बन्धसम्भावनाऽपि न सम्भवी।
अथ पृथगाश्रयाश्रितयोरिति विधा प्रधानतया प्रधार्यते विवुधधोरणीधुर्यैः । तत्रापि किं तयो परस्परं सापेक्षयोर्निरपेक्षयोर्चा ? न तावनिरपेक्षयोरित्यनन्तर' पक्षः सूपक्षेपः । यतस्तत्र 'धवल प्रासाद काकस्य कार्यात् , देवदत्तजाया रण्डा सोमदत्तस्याविद्यमानत्वात्' इत्यादिवद् व्याप्त्यनुपपत्ति[.] प्रतिवन्धाभावादिदोषपोषावतारस्य तादवस्थ्यात् । किञ्च, पृथक पृथग व्यक्त्याश्रितयोः साध्यसाधनयोः सर्वथा निरपेक्षत्वे कथ साध्यसाधनभावसम्बन्ध. ? न हि क्वापि घटस्थघटत्वं पटस्थपटत्वसाधनाय पटीयस्ता घटयति । अथ सापेक्षयोस्तत्रा(त्र) कि सापेक्षत्वमेकदेशावस्थायित्वेन किं वैककालभावित्वेन विभाव्येत । उभयथापि सापेक्षत्वेऽङ्गीक्रियमाणे कार्यकारणपूर्वचरोत्तरचरादिहेतूना सर्वथापि देशकालानपेक्षाणां कथं सम्बन्धो गृह्यते गुणगृःि। केषुचिद् गृहीतोऽपि न निश्शेषसाध्यसाधनाना परस्परि]सम्बन्धसिद्धरङ्गत्वात् जाजायते,सदेहाऽनिवृत्तेः । तन्न साध्यसाधकभावसम्बन्धोऽपि सामान्यि]गुणगृन्य(ह्य)रूपसाव्यसाधनयोः सम्भवी।
अथ वोभोतु भो. ! तवाभिमतो योऽपि कोऽपि सम्बन्धः; न तत्र वयं किमपि कुर्महे काचपिच्यम् । परम् अपरसामान्यात्मक साधनं निश्चित विपक्षव्यावृत्तिमदन्यथा वा ?
Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193