Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 111
________________ हेतुखण्डनपाण्डित्यम् । एवं पूर्वोक्तयुक्त्या विचार्यमाणो युष्मन्निरूपितो हेतुर्न स्वसाध्यसिद्धौ साधीयस्तां दधाति । तथापि पुनरप्येकशः प्रकारान्तरेण विचार्यते । तथाहिअसौ हेतुस्तर्कवितर्कसम्पर्ककर्कशशेमुषीविशेषोन्मेषाभिलषितलक्षणलक्षित आहोस्वित् परोलक्षदक्षविक्षेपितलक्षणलक्षितः ? इति विकल्पयुगलं कुलाचलकुञ्जरस्थूलविमलदन्तयुगलमिव प्रतीतिपथातिथीभावं भजति । तत्र द्वितीयो नाद्वैतानन्दनिष्यन्दसम्पत्सम्पादकः । न हि कोऽपि प्रवीणप्रामाणिकः प्रामाणिकीभूय भूयः सङ्ख्यावत्पर्षदि निर्लक्षणं हेतुमाचष्टे, तस्य सर्वोपाख्याविरहितत्वेन साध्यसिद्धावनादरणीयत्वात् । अथ पौरस्त्यः प्रस्तूयते । स्वस्तिवास्तवीभूतप्रशस्तमतिभिस्तदा प्रचण्डदोर्दण्डाखण्डपाण्डित्योड्डामरतामण्डलाखण्डलपराक्रमायमाणपण्डितप्रकाण्डचण्डिमोन्मुक्तातिवक्रचक्रककृत्तमुण्डः कथं स्वसाध्यसिद्धिप्राणप्रियाप्रणयिनीमनःप्रमोदसम्पत्सम्पादनाय सपनीपद्यते । तथाहिहेतुः स्वात्मसिद्धिसौधमध्यमध्यारोहणाय लक्षणमपेक्षते, लक्षणमपि व्याप्तिप्राप्तिम्, व्याप्तिप्राप्तिरपि हेतुम्, हेतुरपि लक्षणम्, लक्षणमपि व्याप्तिप्राप्तिम्, व्याप्तिरपि हेतुमित्यावर्तनमिति कथ स्वसाध्यसाधकः । यतः यश्चक्रकापातनिकृत्तमौलेहेतोः स्वसाध्यस्य समृद्धिसिद्धिम् । विनैव रत्नत्रयमीहतेऽसौ दुरुत्तरानन्तभवाब्धिपारम् ॥ पूर्वोपाधेरनौपाधिकः सम्बन्धो व्याप्तिरव्यभिचरितसम्बन्धो वा व्याप्तिरिति लक्षणाया व्याप्तेरभावाचानकान्तिको भवन् कथमप्यसौ हेतुः स्वसाध्यसाधकः । तथा प्रकरणसमोऽप्ययं हेतु', साध्यविपरीतसाधकहेन्वन्तरसद्भावात् । तथाहि-इहेदं साधनं स्वसाध्यसिद्धये नोपन्यसनीयम् , स्वसाध्यसिद्धावसाधकतमत्वात् । यद् यत्र स्वसाध्यसाधनायासाधकतमं तत् तत्र नोपन्यसनीयम्, यथेह घटं प्रति घटः । न जायते चानेन साध्यसिद्धिः । तस्मान्नोपन्यसनीयमिति व्यापकविरुद्धोपलब्धिरिति । अपरमपि यथा पक्षः स्वस्वेतरवृत्तित्वानधिकरणास्ववृत्तिधर्माधिकरणम्, मेयत्वात् , घटवदिति ।१। अत्रान्यान्यपि प्रमाणानि मुग्धप्रामाणिकमेधाव्यामोहापनोदाय लिख्यन्ते । यथा-पक्षः साध्यनिष्ठात्यन्ताभावाधिकरणम्, मेयत्वात् , घटवदिति । २ । पक्षः साध्यधर्मातिरिक्तधर्माधिकरणम् , प्रतीयमानत्वानिर्विवादपदवत् ।३। पक्षविपक्षधर्मनिष्ठात्यन्ताभावाधिकरणम्, प्रमेयत्वादविगीतपदवत् ।४। अयं पक्ष एतत्पक्षधर्मान्यधर्मवानसत्त्वात् ५। पक्षोऽयं पक्षधर्मनिष्ठात्यन्ताभावाधिकरणम्, मेयत्वाद् उभयाविगीतपदवत् ।६। इत्यादीनि वक्रच्छायानुमानानि प्रतिपक्षोत्थापकानि पर शतानि परिस्फुरन्ति । ततः कथमिद साधनं युष्मदुपज्ञसाध्यसाधकमिति । यथा---

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193