Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 97
________________ हेतुविडम्बनस्थलम् । अथ भवताद् वा भवतामभिमता साध्यसाधनव्यक्त्यादीनां यथाकथञ्चिद् व्याप्ति. परं परस्परं साध्यसाधनयोः सा भवन्ती प्रमाणेन निश्चयपदवीमाप्यते प्रामाणिकप्रकाण्डेरन्यथा वा ? न तावदन्यथाऽतिप्रसक्तेरविश्वासाच्च । तथा च कुमारिल --- प्रमाणवन्त्यदृष्टीनि कल्प्यानि सुबहून्यपि । वालाग्रशतभागोऽपि न कल्प्यो निष्प्रमाणकः ॥ [ तन्त्रवा० २.१.२.५ ] अथ प्रमाणेन । तत्रापि कि प्रत्यक्षेण १ किं वानुमाने[न] २ उताऽर्थापत्त्या ३ आहोस्विदभावप्रमाणेन ४ अथ किं वा तर्केण ५ इति स्फुरदनल्पजल्पोल्लासिनी विकल्पपञ्चतयी समग्रप्रतिपक्षपक्षविक्षेपदक्षा साक्षात् प्रत्यक्षीबोभोति । ___ न हि तत्राध्यक्षेण व्याप्तिनिर्णयः क्वापि कर्तुं पार्यते श्रीमदाथैः । न हि सकलव्यक्तिवर्गनिष्ठस्यगन्वयस्य व्यतिरेकस्योभयस्य वा प्रत्यक्षत्वमसर्वज्ञस्य सम्भवति । तत्प्रत्यक्षत्वे वाऽनुमानप्रवृत्तेर्वैयर्थ्यप्राप्तेः स्पष्टमेव निष्टड्क्यमानत्वात् सर्वस्य सार्वज्ञप्राप्तेश्च । नाप्यनुमानेन, सततावस्थानानवस्थानदौस्थ्यप्राकट्यस्य पटुतमपाटूपटकोटिभिरपि विघट्टयितुमशक्यत्वात् । व्याप्तिनिर्णयमन्तरेणानुमानानुदये तत्तद्व्याप्तिनिश्चायकविकसदनुमानपरम्पराया दुर्निरूपत्वात् । अर्थापत्तिरपि न पृथक् सार्थकत्वेन प्रार्थनीया पृथुतमयशोविशालैस्तस्यास्तत्त्वतोऽनुमानानतिरेकित्वात् । अथ कदाचिदतिरेकोऽपि विवेकोपगतैरभ्युपगम्यते तदाऽर्थापत्त्यैवानुमानावसेयार्थाधिगमादनुमानस्य दुरापास्तत्वात् । तथाहि -- साध्यसद्भावाभावे साधनस्यानुपपत्तिरिहार्थापत्तिः सततप्रसत्तिशालिभिरभ्युपगता । तथा च तयैवानुपपत्त्या लिङ्गिनोऽविनाभावाधिगतौ किं पश्वात्कृतक्षौरनक्षत्रपरीक्षासदृक्षणानुमानेन प्रयोजनम् । नाप्यभावो व्याप्तिप्रादुर्भावविभावनप्रभु । स ह्येवं प्रमाणीक्रियते प्रामाणिकप्रवेकै - 'यदि साधनं विनापि साध्यं स्यात् तदा साध्यं विना क्वापि साधनोपलम्भोऽपि भवेत् , न भवति च कुत्रापि साध्यविनाकृतसाधनोपलम्भ' तस्मान्न साधन साध्यव्यतिरेकेण' इति । एतच्च प्राञ्चच्चेतोवृत्तिभिर्विचार्यमाण न चारुतामञ्चति । तथाहि-किं सर्वेपामसौ व्यभिचारानुपलम्भः प्रादुर्भावमाविभर्ति किं वाऽनुमानकर्तुरनुपलम्भ उत योग्यानुपलम्भो वा भवेदिति भेदत्रयी त्रिपथगाप्रवाहत्रयीव जगत्त्रयीं पवित्रयन्ती त्रोकते । न तावदाद्यो निरवद्यो विद्योतते , सर्वप्रमातृणां व्यभिचारानुपलम्भस्य निश्चेतुमशक्यतया संशयाऽनतिवृत्तेः । न हि क्वाप्याग्दृशा सुदृशामपि समग्रप्रमातृमानसवृत्तय प्रत्यक्षा.

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193