Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 93
________________ हेतुविडम्बनस्थलम् । ६५ " साक्षाल्लक्षणव्याप्तिनिश्चिायकम् परं तदपि किं विलक्षणं [सलक्षणं] वा भवेदिति भेदयी । नाद्या निरवद्या, यतो विलक्षणत्वेनाकिञ्चित्करत्वापत्तेः । द्वितीयभिदि तु सलक्षणमन्यक्षं निश्चितप्रामाण्यम् किवा अनिश्चितप्रामाण्यं स्यादिति विकल्पौ । अनिश्चितI प्रामाण्ये अतिप्रसङ्गरङ्गतुङ्गमातङ्गसङ्गभोल्लासः । निश्चितप्रामाण्यमित्याद्ये विकल्पे तन्निश्चयोऽपि किं [ स्वतः परतो वा ] ? स्वतः प्रामाण्यनिर्णये सर्वेपामविप्रतिपत्तिप्रसक्तिः । तथा च भ्रान्ताभ्रान्तव्यवस्था दुरवस्थास्थानीमाशिश्रियदेव । तैम (मि)रिकादिप्रत्यक्षाणामपि प्रामाण्यं केन प्रोद्भटेन पराभूयेत 2 परत. प्रामाण्याङ्गीकारे परमपि ज्ञानम् ? किमन्यद् वा • नान्यत् तस्याश्रुतेः । श्रुतावपि स्वपरानिश्चायकत्वेन प्र (प्रा) - माण्यायोगात् । ज्ञानमपि किमेकसन्तानम् भिन्नसन्तानं वा एतद् द्वयमपि किमेकजातीयम् [भिन्नजातीयं] वा ? उभयमपि किं निश्चितप्रामाण्यमन्यथा वेत्यादि पूर्ववत् सकलविकल्पावतारणेनानवस्थादोपकालुष्याददयकदर्थनातादवस्थ्यं गीर्वाणप्रभुणापि पराणेतुमशक्यत्वात् । तन्न प्रत्यक्षाल्लक्षणन्याप्तिनिर्णयः प्रीणयति । 2 अथानुमानं लक्षणव्याप्तिनिश्चायकं यदि जागदोपि मनीषिजनरञ्जनाय तर्हि किमेतदेव स्यात् ' अन्यदेव वा ? एतस्माल्लक्षणत्र्याप्तिनिश्वयेऽन्योन्याश्रयः प्रथितोऽतिथिरवसरागत' कथ पराणुद्यते सार्ववैद्यवैगार द्यहृद्यहृदयै सहृदयै । तथाहि - एतस्मादनुमानाल्लक्षणव्याप्तिनिर्णयमिद्भिः, लक्षणव्याप्तिनिर्णयसिद्धो चैतदनुमानसिद्धिरिति । अन्यदपि किं सलक्षणम् विलक्षण वा ? अलक्षणस्य निश्चायकत्वे सर्वानुमानलक्षणप्राणव्यपरोपणप्रगुणपापपङ्ककालिमा न प्रलीयते । अथ सलक्षणम्, तत्रापि किं तल्लक्षण निश्चितम् अनिश्चितं वा ? निश्चयोऽपि प्रमाणादप्रमाणाद् वा ? प्रमाणमपि प्रत्यक्षमनुमान वेत्यादि - नाssवर्तनेन युगसहस्रैरपि न सलक्षणहेतुसिद्धिः साधीयस्तां देधीयते । किञ्च हेतु सलक्षणचेद् भवत सम्मतस्तर्हि तल्लक्षणं सामान्यात्मकं वा बोभूयात् ± विशेषात्मकं वा ? न तावत् सामान्यात्मकम्, तस्यानुवृत्तिप्रत्ययजनकत्वेन व्यावृत्तिधर्मविशेषरूपत्वात्, ‘व्यतिरेकी हेतुविशेषो लक्षणम्' इति वचनात् । अथ स्वव्यक्तिष्वनुवृत्तिस्वभावत्वेऽपि सकलाहेतुव्यक्तिव्यावृत्तिजनकत्वेन सामान्यरूपस्यापि तस्य न लक्षणमनुपपन्नमिति चेत् तर्ह्यनुवृत्तिव्यावृत्तिरूपोभयस्वभावत्वेन सामान्यविशेषात्मकत्वापत्तिः स्यात्, तथा च विरोध. सानुबन्धः कथं न भवेत् । अथास्तु वस्तुवृत्त्या सामान्यात्मक लक्षणम्, पर तत् किं सकलहेतुव्यक्तीनामेकमनेक वा कथ्येत तथ्यवादिना यद्येक तर्हि निखिलहेतूनामेकलक्षणलक्षितत्वेन भेदाभावप्रसक्ते लक्षणभेदाऽविनाभूतत्वाद्धि लक्ष्यभेदस्य । तथात्वे च केवलान्वयि - केवलव्यतिरेकिहेतुभेदकथा कथाशेषतामेव विशेषयेत् । किञ्च, एकमपि लक्षणं सकलस्वहेतुव्यक्तिषु वर्तमान किं सामस्त्येन प्रव

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193