________________
हेतुविडम्बनस्थलम् ।
६५
"
साक्षाल्लक्षणव्याप्तिनिश्चिायकम् परं तदपि किं विलक्षणं [सलक्षणं] वा भवेदिति भेदयी । नाद्या निरवद्या, यतो विलक्षणत्वेनाकिञ्चित्करत्वापत्तेः । द्वितीयभिदि तु सलक्षणमन्यक्षं निश्चितप्रामाण्यम् किवा अनिश्चितप्रामाण्यं स्यादिति विकल्पौ । अनिश्चितI प्रामाण्ये अतिप्रसङ्गरङ्गतुङ्गमातङ्गसङ्गभोल्लासः । निश्चितप्रामाण्यमित्याद्ये विकल्पे तन्निश्चयोऽपि किं [ स्वतः परतो वा ] ? स्वतः प्रामाण्यनिर्णये सर्वेपामविप्रतिपत्तिप्रसक्तिः । तथा च भ्रान्ताभ्रान्तव्यवस्था दुरवस्थास्थानीमाशिश्रियदेव । तैम (मि)रिकादिप्रत्यक्षाणामपि प्रामाण्यं केन प्रोद्भटेन पराभूयेत 2 परत. प्रामाण्याङ्गीकारे परमपि ज्ञानम् ? किमन्यद् वा • नान्यत् तस्याश्रुतेः । श्रुतावपि स्वपरानिश्चायकत्वेन प्र (प्रा) - माण्यायोगात् । ज्ञानमपि किमेकसन्तानम् भिन्नसन्तानं वा एतद् द्वयमपि किमेकजातीयम् [भिन्नजातीयं] वा ? उभयमपि किं निश्चितप्रामाण्यमन्यथा वेत्यादि पूर्ववत् सकलविकल्पावतारणेनानवस्थादोपकालुष्याददयकदर्थनातादवस्थ्यं गीर्वाणप्रभुणापि पराणेतुमशक्यत्वात् । तन्न प्रत्यक्षाल्लक्षणन्याप्तिनिर्णयः प्रीणयति ।
2
अथानुमानं लक्षणव्याप्तिनिश्चायकं यदि जागदोपि मनीषिजनरञ्जनाय तर्हि किमेतदेव स्यात् ' अन्यदेव वा ? एतस्माल्लक्षणत्र्याप्तिनिश्वयेऽन्योन्याश्रयः प्रथितोऽतिथिरवसरागत' कथ पराणुद्यते सार्ववैद्यवैगार द्यहृद्यहृदयै सहृदयै । तथाहि - एतस्मादनुमानाल्लक्षणव्याप्तिनिर्णयमिद्भिः, लक्षणव्याप्तिनिर्णयसिद्धो चैतदनुमानसिद्धिरिति । अन्यदपि किं सलक्षणम् विलक्षण वा ? अलक्षणस्य निश्चायकत्वे सर्वानुमानलक्षणप्राणव्यपरोपणप्रगुणपापपङ्ककालिमा न प्रलीयते । अथ सलक्षणम्, तत्रापि किं तल्लक्षण निश्चितम् अनिश्चितं वा ? निश्चयोऽपि प्रमाणादप्रमाणाद् वा ? प्रमाणमपि प्रत्यक्षमनुमान वेत्यादि - नाssवर्तनेन युगसहस्रैरपि न सलक्षणहेतुसिद्धिः साधीयस्तां देधीयते ।
किञ्च हेतु सलक्षणचेद् भवत सम्मतस्तर्हि तल्लक्षणं सामान्यात्मकं वा बोभूयात् ± विशेषात्मकं वा ? न तावत् सामान्यात्मकम्, तस्यानुवृत्तिप्रत्ययजनकत्वेन व्यावृत्तिधर्मविशेषरूपत्वात्, ‘व्यतिरेकी हेतुविशेषो लक्षणम्' इति वचनात् । अथ स्वव्यक्तिष्वनुवृत्तिस्वभावत्वेऽपि सकलाहेतुव्यक्तिव्यावृत्तिजनकत्वेन सामान्यरूपस्यापि तस्य न लक्षणमनुपपन्नमिति चेत् तर्ह्यनुवृत्तिव्यावृत्तिरूपोभयस्वभावत्वेन सामान्यविशेषात्मकत्वापत्तिः स्यात्, तथा च विरोध. सानुबन्धः कथं न भवेत् । अथास्तु वस्तुवृत्त्या सामान्यात्मक लक्षणम्, पर तत् किं सकलहेतुव्यक्तीनामेकमनेक वा कथ्येत तथ्यवादिना यद्येक तर्हि निखिलहेतूनामेकलक्षणलक्षितत्वेन भेदाभावप्रसक्ते लक्षणभेदाऽविनाभूतत्वाद्धि लक्ष्यभेदस्य । तथात्वे च केवलान्वयि - केवलव्यतिरेकिहेतुभेदकथा कथाशेषतामेव विशेषयेत् । किञ्च, एकमपि लक्षणं सकलस्वहेतुव्यक्तिषु वर्तमान किं सामस्त्येन प्रव