________________
जिनमण्डननिषद्धम् रोवृत्येत ? किंवा एकदेशेन ? इति द्विपक्षीराक्षसी प्रत्यक्षीवोभवीति । तत्र यदि प्रथमः प्रथ्यते प्रथीय स्वान्तैस्तदा तस्य नियतैकहेतुव्यक्तिपरिनिष्टितत्वेन समस्तान्यहेतुव्यक्तिषु वर्तनाऽनुपपत्तेः । तथा च व्यक्तमेवापरहेतुव्यक्तीनामलक्षणत्वापत्तिविपत्तिः सप्रसत्तिः । अथैतदभयादेकदेशेनेति पक्ष. साक्षाद्विशुद्धोभयपक्षैर्दक्षैः कक्षीकरिष्यते तदा सकलसाधनव्यक्तीनां लक्षणैकैकदेशलक्षितस्वैकैकदेशान् विहाय शेपापरदेशेषु निर्लक्षणत्वं जायमानं केनोत्कटेनापि पराचेक्रियेत । तथा लक्षणस्य सामान्यात्मकत्वेन सांशतापत्तिरपि दुर्निवारा। सामान्यस्य निरंशत्वेन तदात्मलक्षणस्यापि निरंशत्वात् । तन्न निखिलहेतुव्यक्तीनामेकं लक्षणमाख्यायमानं सङ्ख्यावता ख्यातये जायेत । अथानेकमित्यङ्गीक्रियते तदापि विशेषरूपतापत्ति , अनेकरूपत्वाद् विशेषाणाम् । तत्र च पुरस्तान्निराकरिष्यमाणविशेषात्मकपक्षदूषणोद्घोषणाऽनिवारितप्रसरेति नानेकरूपमपि लक्षणं प्ररूपणीयम् । तन्न सामान्यात्मक लक्षणं हेतोरनुगुणम् ।
अथ विशेषात्मकं तर्हि तस्य लक्षणत्वानुपपत्तिः] नियतैकत्वहेतुल्यक्तिलक्षकत्वेन समग्राऽपरहेतुव्यक्तीनामलक्षकत्वात् स्वाश्रयमात्रविशेषकत्वाच्च । तथा चोक्तम्-"स्वाश्रयविशेषकत्वाद् विशेषाः" इति । अथ प्रतिहेतुव्यक्ति पृथक् पृथक् लक्षणमिष्यत इति स्वीकुर्यास्तर्हि लक्षणानन्त्यं केन वार्येत । हेतुव्यक्तीनामानन्त्यात् तल्लक्षणानामपि तथाभाव. सावधान एव विभाव्यते । तथात्वे च न कल्पान्तेऽपि सकलहेतुपरिज्ञानम् । तन्न विशेषात्मकमिति पक्षः सूपक्षेप ।
अथास्तु विशेषात्मकमपि, परं हेतोस्तद् बेभिद्यान्न वा ? यदि न बेभिद्यते तदा हेतुर्वा स्याल्लक्षणं वा , न तु पृथक् द्वयम् , परस्परमपृथग्भूतत्वेनैक्यापत्तेर्दुर्वार्यत्वात् । अथाबेभिदीत् तर्हि हेतोर्निर्लक्षणत्वापत्तिसज्जनिर्लज्जकुट्टिनी कण्ठपीठनिविष्टा कथमुत्सारणीया । किञ्च, लक्षणस्य भिन्नत्वे 'हेतोरेवेदं नान्येषाम्' इत्येषा का विशेषानुरक्तचेतसां वचोवैचित्री । अथ हेतुना सह सम्बन्धाद्धेतोरेवेदं नान्येषामिति चेत् तर्हि कस्तयोः सम्बन्धः । लक्ष्यलक्षणभाव एवेति चेत् ननु सोऽपि सम्बन्धो हेतु-लक्षणाभ्यां भिन्नोऽभिन्नो वा वोभूयेत । अभिन्नत्वे हेतु-लक्षणे द्वे एव न तृतीयः कश्चिल्लक्ष्यलक्षणभावसम्बन्धः । भिन्नत्वे तु सोऽपि सम्बन्धस्ताभ्यां सम्बद्धोऽसम्बद्धो वा विशुद्धेद्धबुद्धिनाऽभिधीयते । यद्यसम्बद्धस्तहि हेतु-लक्षणयो सम्बन्धाभावस्तदवस्थ एव , यतो लक्ष्यलक्षणभावसम्बन्धस्य ताभ्यां सहासम्बद्धत्वेन पृथग्भूतत्वात् । अथ सम्बद्धस्तदा किं सम्बन्धात् अन्यथा वा । यद्यन्यथा तर्हि हेतु-लक्षणे अपि तथा किं न भवेताम् , किं लक्ष्य[ल]क्षणभावसम्बन्धकल्पनाऽनल्पक्लेशेन । अथ सम्बन्धादिति मतिमता प्रोच्यते तर्हि सोऽपि सम्बन्धः