________________
हेतुविडम्बनस्थलम् । किं लक्ष्यलक्षणभावसम्बन्धेन सह सम्बद्धोऽसम्बद्धो वेत्याद्यावर्तनेनानवस्थादोषविडम्बना निविडं भवन्त निपीडयन्ती न कथमपि विगमारामसम्मुखीनं मनो विरचयति । तन्न हेतोः सलक्षणत्व कथमपि विचार्यमाणं चतुरचेतसि चमत्कारकत्वेन प्रतिबाभाति ।
अथ भवतु भवत्तुष्टिपुष्टये सलक्षणं साधनं परं तदपि सर्वत्र स्वसाध्यसाधनाय सम्यक् निश्चिताया व्याप्तौ सत्यां सत्यताञ्चित साधीयः सावधाननिरवधिधीधनैरभिधीयते नान्यथेति रीतिः सुप्रीतये सुनीतिमताम् । तत्र तावत् व्याप्तिरेव परमाप्तप्रवीणैः सप्रणयं विचार्यमाणा न प्रमाणानुगुणताधिरोहिणी । तथाहि-व्याप्तिर्भवन्ती किंसाधनसाध्यव्यक्त्योर्वोभोति १ उताहो साधनत्व-[साध्यत्व]जात्योर्वा २ आहोस्वित् साधनवत्साध्यवतो. ३ किं वा साधनत्ववत्साध्यत्ववतोः ४ उत साधनवत्त्वसाध्यवत्वयोरिति ५ पक्षपञ्चतयीं त्रिजगद्विषयसञ्चारितया निरूपणीयाऽनणीयोऽनुपमस्वरूपरूपरसादिविषयपञ्चतयीव सकलजीवलोकविलोकनीया कनीय कमनीयव्यापारसारा प्रसरीसरीति वरीयसी ।
तत्र नाद्यो विद्योतते सद्योविद्योतिविद्योद्योगिहृदयसहृदयसमुदयसदसि प्रणिगद्यमानः । यतो व्याप्तिर्हि त्रिकाल विषयी साध्यसाधनसम्बन्धः, तद्ग्रहणस्य च व्यक्तीनामानन्त्येन सर्वदाऽप्यसम्भवात् । न हि सर्वज्ञ विना केनापि सर्वव्यक्तयो विशेषतोऽवगम्यन्ते । एवं च सति सर्वोपसहारवती यावता व्याप्तिर्न विज्ञायते न तावता साध्यसाधनयोः सार्वत्रिकी सार्वकालिकी च प्रतिबन्धसिद्धिरुल्लालस्येत । न च सार्वत्रिकप्रतिवन्धसिद्धिमन्तरेण काप्यनुमानं प्राणसधारणाय प्रगुणायते । तन्न व्यक्तिरूपयोयाप्तिरिति पक्ष क्षेमकार । किञ्च, साध्यसाधनयोर्व्याप्तिः किं 'यत्र यत्र साधनं तत्र तत्र साध्यम्' इति देशरूपा निरूप्येत, किं वा 'यदा यदा साधनं तदा तदा साध्यम्' इति कालरूपा, युगपदुभयस्वभावा वा ? पक्षत्रयमपि विचारपदवीमारोप्यमाणं कृपापात्रतामेवावगाहते । तथाहि-उद्गतो नभश्चन्द्रः, जलचन्द्रोदयदर्शनात् , आसीत् पूर्वस्मिन् देशे वृष्टि., उत्तरत्र तथाविधवारिपूर विलोकनात , भविष्यति वारिवाहवृष्टि , तादृग्वारिवाहविभावनात् , उदेप्यति रोहिणी, कृत्तिकोदयात् , उदेष्यति व सविता, अद्यतनादित्योदयदर्शनात् , उदगाद् मुहूर्तात् पूर्व पूर्वफल्गुनी, उत्तरफल्गुनीनामुदयोपलब्धेरित्याद्यनुमाना-नामनेकेषां देश-कालोभयेभ्यो विप्रकृष्टानां कार्यकारण-पूर्वचर-उत्तरचरहेतुविशेषाणां देशकालोगयैः क्वापि व्याप्यनुपपत्तेर हेतुत्वप्राप्ते । तथा च सकलानुमानप्राणप्रहाणपापव्यापारपङ्ककालिमा न प्रलीयते कल्पकोटिभिरपि । अपि च यदि 'यत्र यत्र सावन तत्र तत्र साध्यम्' इति देशतो व्याप्ति