Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 73
________________ ४५. वादचतुष्कम् अस्तु वा यथाकथञ्चिज्जगतः कार्यत्वम् । तथापि कार्यमात्रमत्र हेतुत्वेन विवक्षितम् तद्विशेषोवा ±यद्याद्यस्तर्हि न ततो बुद्दिमत्कर्तृविशेषसद्धिः । तेन सह तस्य व्याप्त्यसिद्धेः । किन्तु, कर्तृसामान (न्य)स्य [तु सिद्धे ।] तथा च हेतोरकिञ्चित्करत्वं साध्यविरुद्धसाधनाद् विरुद्धत्व वा । ततः कार्यत्वं कृतबुद्धयुत्पादक बुद्धिमत्कर्तुर्गमक न सर्वं; सारूप्य - मात्रेण च गमकत्वे बाष्पादेरप्यग्निं प्रति गमकत्वप्रसङ्गो महेश्वरं प्रत्यात्मत्वादेश्च सादृश्यात् संसारित्वप्रसङ्ग ं । किञ्चिज्ज्ञत्वाऽखिलजगदकर्तृत्वानुमापकानुषङ्गस्तुल्याक्षेपसमाधानत्वात् । ततो बाष्पधूमयोः केनचिदंशेन साम्येऽपि यथा कुतश्चिद्विशेषाद धूमोऽग्निगमयति न बाष्पादिस्तथा क्षित्यादी तरकार्यत्वयोरपि कश्चिद्विशेषोऽभ्युपगमः (म्यः) । अथ द्वितीयस्तर्हि हेतोरसिद्धत्वं कार्यविशेषस्याभावात्, भावे वा जीर्णकूपप्रासादादिवदक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वप्रसङ्गः । समारोपान्नेति चेत् सोऽप्युभयत्रा विशेषतः किं न स्यात् उभयत्र कर्तुरतीन्द्रियत्वाऽविशेषात् । " अथ प्रामाणिकस्यास्तेवा (स्यास्त्येवा) त्र कृतबुद्धिः । ननु कथ तस्य तत्र कृतत्वावगमोऽनेनानुमानेनाऽनुमानान्तरेण वा 2 आद्येऽन्योन्याश्रयस्तथा हि सिद्धविशेषणाद्वेतोरस्योत्थानम्, तदुत्थाने च हेतोर्विशेषण सिद्धिरिति । द्वितीयपक्षेऽनुमानान्तरस्यापि सविशेषेण हेतोरेवोत्थानम् । तत्राप्यनुमानान्तरात् तत्सिद्भावनवस्था । तन्न कृतबुद्धयुत्पादकत्वरूपविशेषण सिद्धिस्तथा च विशेषणासिद्धत्वं हेतोः । यदुच्चयते खातप्रतिपूरितभूनिदर्शनेन कृतकानात्मनि कृतबुद्धयुत्पादकत्व - नियमाभाव इति तदप्यसत् तत्राकृत्रिम भूभागादिसारूप्यस्य तदनुत्पादकस्य सद्भावात्, तदनुत्पादकस्योपपत्तेः । न च क्षित्यादावप्य कृत्रिमसस्थानसारूप्यमस्ति येनाकृत्रिमत्वबुद्विरुत्पद्यते तस्यैवानभ्युपगमादभ्युपगमे वाऽपसिद्धान्तप्रसक्तिः स्यादिति कृतबुद्धयुत्पादकत्वरूपविशेषणासिद्धत्व हेतो' । सिद्धयतु वा तथाप्यसौ विरुद्धो घटादाविव शरीरादिविशिष्टस्यैव बुद्धिमत्कर्तुरत्र प्रसाधनात् । नन्वेवं दृष्टान्तदान्तिकसाम्यान्वेपणे सर्वत्र हेतूनामनुपपत्तिरिति चेन्न । धूमाधनुमाने महानसेतरसाधारणस्याग्ने प्रतिपत्तेः । अत्राप्येवं बुद्धिमत्सामान्यप्रसिद्धेर्न विरुद्धत्वमित्ययुक्तम्, दृश्यविशेषाधारस्यैव तत्सामान्यस्य कार्यत्वहेतो' प्रसिद्धेर्नादृश्य विशेषाधारस्य, तस्य स्वप्नेऽप्यप्रतीतेः खरविषाणाधारतत्सामान्यवत् । ततो यादृगात् कारणाद् यादृशं कार्यमुपलब्धं तादृशादेव तादृशमनुमातव्यम् । यथा यावद्धर्मात्मकाद् वह्नेर्यावद्धर्मात्मकस्य धूमस्योत्पत्ति सुदृढप्रमाणात् प्रतिपन्ना तादृगादेव धूमात् तादृशस्यैवाग्नेरनुमानमित्यैतेन साध्य-साधनयोर्विशेषेण व्याप्तौ गृह्यमाणायां सर्वानुमानोच्छेदप्रसक्तिरित्या

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193