Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 81
________________ परब्रह्मोत्थापनस्थलम् । न भवति तत्र प्रतीयमानत्वात् । न च सर्वथाऽसत् प्रतीयते खरविषाणवत् । तस्मात् शुक्तिशुकले कलधौतवत् सदसद्विलक्षणत्वेनानिर्वाच्य एवायं प्रपञ्चः । - एतदपि न प्रामाणिकपर्षदर्हम् । तथाहि-शुक्तिशकलकलधौतस्य सदसद्विलक्षणत्वे किं प्रमाणं प्रत्यक्षमनुमानं वा ? नाद्यः पक्षः सदसद्विलक्षणग्राहकत्वाभवात् । अथानुमानमस्ति तन्निश्चायकम् । तथाहि-अनिर्वाच्यं शुक्तिशकलकलधौतम् अपरोक्षप्रतिमासवाधान्यथानुपपत्ते । एतदप्यनुमानं अयुक्तं 'हेतोविरुद्धत्वात् । प्रत्यक्षप्रतिभासवाधा च यत्र स्यातां तत्र प्रथमं कलधौतादिशब्दैः पश्चाच्च शुक्तिकादिशब्दैः सर्वैरपि वाच्यत्वस्यैव स्वीकारात् । तथाऽत्र व्याप्तिरुभयसिद्धा नास्ति । न ह्यपरोक्षतया प्रतिमासो बाधा च यस्य स्यातां तदनिर्वाच्यत्वेनाऽस्माभिः स्वीक्रियते । तत्रासत्त्वस्यैव स्वीकारात् । ततो दृष्टान्तविकलत्वेनाव्याप्तमेवेदं साधनम् । ' किञ्च, मतिवैगुण्याद् विपर्यय एव शुक्तौ रजतज्ञानस्याङ्गीकार्यः । एकत्र चेन्मतिमान्द्याद् विपर्ययो जातः तर्हि सर्वत्र विपर्ययेणैव किं भवितव्यम् ? ऐकेन चेत् तिमिरादिदोषेण द्वौ चन्द्रौ दृष्टौ तर्हि सर्वैरपि किं तथैव द्रष्टव्यौ १ तथाभ्युपगमे दृष्टहानिरदृष्टकल्पना च । तथा सर्वेऽप्येवं वदन्ति यथाऽस्य शुक्तिशकलकलधौतभ्रान्तिर्जाता। न हि पुनः कोऽप्येवं वावदीति घट-पट-लकुट-शकटमुकुटादौ सर्वत्र सर्वेषां भ्रान्तिरेव । न हि यथा मरुमरीचिकायां जलप्रतीतिर्धान्ता तथा तटाकतटिन्यादावपि भ्रान्तव, कैश्चिदपि तथाऽकथनात् । अथ सर्वेषां 'वचनमप्रमाणं तहिं भवतोऽपि वचनं कथं प्रमाणम् ? सर्वान्तर्गतत्वाद् भवतः । बहूनां वचनाप्रामाण्ये चैकस्य वचनं प्रमाणीक्रियते तर्हि द्विचन्द्रज्ञानमपि सत्यं स्यात् । किञ्च, प्रतीतिः सैव सत्या याऽर्थक्रियाकारिणी, अन्या तु भ्रान्तैव । यदि च मरुमरीचिकाजल-तटाकजलप्रतीती द्वे अपि भ्रान्तत्वेन समाने स्यातां तदा मरुमरीचिकायामिव तटाकादावपि न क्रियेत प्रवृत्तिख़ततत्त्वैर्भवद्भिः, क्रियते च । तस्मादपि विशेषः । विशेषे च सिद्धे एका प्रतीतिः सत्या, एका भ्रान्ता चेति बलात् प्रतिपत्तव्यम् । तत्प्रतिपत्तौ च न हि भ्रान्तप्रतिपत्तिबलेनाभ्रान्ताऽपि प्रतिपत्तिर्धान्ता कर्तु शक्या । समुत्थलट्वबलधूलिपटल, शीतकाले जलादौ बाष्पादिमण्डल वा दृष्ट्वा एकत्राग्न्यनुमानभ्रान्तौ किं सर्वत्र भ्रान्त्यैव भाव्यम् ? तथाङ्गीक्रियमाणेऽनुमानव्यवहारोऽपि न युक्तः । तथा च सति प्रपञ्चो मिथ्येत्याद्यनुमानं न युक्तम् । एवं चैकस्य दोषदुष्टतायां त्रिभुवनमपि दोषदुष्ट स्यात् । ततो नाऽनेन दृष्टान्तेन सदसद्विलक्षणत्वं साधयितुं शक्यते । प्रपञ्चस्यास्मान् प्रति दृष्टान्तस्यासिद्धत्वात् । ।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193