________________
परब्रह्मोत्थापनस्थलम् । न भवति तत्र प्रतीयमानत्वात् । न च सर्वथाऽसत् प्रतीयते खरविषाणवत् । तस्मात् शुक्तिशुकले कलधौतवत् सदसद्विलक्षणत्वेनानिर्वाच्य एवायं प्रपञ्चः । - एतदपि न प्रामाणिकपर्षदर्हम् । तथाहि-शुक्तिशकलकलधौतस्य सदसद्विलक्षणत्वे किं प्रमाणं प्रत्यक्षमनुमानं वा ? नाद्यः पक्षः सदसद्विलक्षणग्राहकत्वाभवात् । अथानुमानमस्ति तन्निश्चायकम् । तथाहि-अनिर्वाच्यं शुक्तिशकलकलधौतम् अपरोक्षप्रतिमासवाधान्यथानुपपत्ते । एतदप्यनुमानं अयुक्तं 'हेतोविरुद्धत्वात् । प्रत्यक्षप्रतिभासवाधा च यत्र स्यातां तत्र प्रथमं कलधौतादिशब्दैः पश्चाच्च शुक्तिकादिशब्दैः सर्वैरपि वाच्यत्वस्यैव स्वीकारात् । तथाऽत्र व्याप्तिरुभयसिद्धा नास्ति । न ह्यपरोक्षतया प्रतिमासो बाधा च यस्य स्यातां तदनिर्वाच्यत्वेनाऽस्माभिः स्वीक्रियते । तत्रासत्त्वस्यैव स्वीकारात् । ततो दृष्टान्तविकलत्वेनाव्याप्तमेवेदं साधनम् ।
' किञ्च, मतिवैगुण्याद् विपर्यय एव शुक्तौ रजतज्ञानस्याङ्गीकार्यः । एकत्र चेन्मतिमान्द्याद् विपर्ययो जातः तर्हि सर्वत्र विपर्ययेणैव किं भवितव्यम् ? ऐकेन चेत् तिमिरादिदोषेण द्वौ चन्द्रौ दृष्टौ तर्हि सर्वैरपि किं तथैव द्रष्टव्यौ १ तथाभ्युपगमे दृष्टहानिरदृष्टकल्पना च । तथा सर्वेऽप्येवं वदन्ति यथाऽस्य शुक्तिशकलकलधौतभ्रान्तिर्जाता। न हि पुनः कोऽप्येवं वावदीति घट-पट-लकुट-शकटमुकुटादौ सर्वत्र सर्वेषां भ्रान्तिरेव । न हि यथा मरुमरीचिकायां जलप्रतीतिर्धान्ता तथा तटाकतटिन्यादावपि भ्रान्तव, कैश्चिदपि तथाऽकथनात् । अथ सर्वेषां 'वचनमप्रमाणं तहिं भवतोऽपि वचनं कथं प्रमाणम् ? सर्वान्तर्गतत्वाद् भवतः । बहूनां वचनाप्रामाण्ये चैकस्य वचनं प्रमाणीक्रियते तर्हि द्विचन्द्रज्ञानमपि सत्यं स्यात् । किञ्च, प्रतीतिः सैव सत्या याऽर्थक्रियाकारिणी, अन्या तु भ्रान्तैव । यदि च मरुमरीचिकाजल-तटाकजलप्रतीती द्वे अपि भ्रान्तत्वेन समाने स्यातां तदा मरुमरीचिकायामिव तटाकादावपि न क्रियेत प्रवृत्तिख़ततत्त्वैर्भवद्भिः, क्रियते च । तस्मादपि विशेषः । विशेषे च सिद्धे एका प्रतीतिः सत्या, एका भ्रान्ता चेति बलात् प्रतिपत्तव्यम् । तत्प्रतिपत्तौ च न हि भ्रान्तप्रतिपत्तिबलेनाभ्रान्ताऽपि प्रतिपत्तिर्धान्ता कर्तु शक्या । समुत्थलट्वबलधूलिपटल, शीतकाले जलादौ बाष्पादिमण्डल वा दृष्ट्वा एकत्राग्न्यनुमानभ्रान्तौ किं सर्वत्र भ्रान्त्यैव भाव्यम् ? तथाङ्गीक्रियमाणेऽनुमानव्यवहारोऽपि न युक्तः । तथा च सति प्रपञ्चो मिथ्येत्याद्यनुमानं न युक्तम् । एवं चैकस्य दोषदुष्टतायां त्रिभुवनमपि दोषदुष्ट स्यात् । ततो नाऽनेन दृष्टान्तेन सदसद्विलक्षणत्वं साधयितुं शक्यते । प्रपञ्चस्यास्मान् प्रति दृष्टान्तस्यासिद्धत्वात् । ।