________________
श्रीभुवनसुन्दरसूरिरचितम् सदसद्विलक्षणत्वात् परब्रह्मवत् । अथ परब्रह्माऽवाच्यं न भवति तर्हि वाच्यं लभ्यं व्यङ्ग्यं तात्पर्यगम्यं वा ? यदि वाच्यं तर्हि तद्वत् प्रपश्चोऽपि वाच्य एवास्तु । अथ लक्ष्यं तर्हि ब्रह्मेत्युक्ते कथं मुख्यार्थवाघः ? किञ्च, मुख्यार्थासंवद्रं न लल्यं नाम षड्भेदायां लक्षणायाम् , अतो न लक्षणा । किञ्च, यल्लक्ष्यं भवति तद्वाच्यमपि स्यात् यथा 'गंगायां घोषः' इत्युक्ते तटं लल्यं, तटमित्युक्ते वाच्यं च । तस्मात् सर्वार्थानां वाच्यत्वे सिद्धे लक्ष्यं ब्रह्मेति वचनं न किञ्चिद् विशेष पुष्णाति । अथ व्यङ्ग्यं तर्हि मुख्यगौणलक्ष्याद्यर्थव्यतिरिक्तः प्रतीतिविषयो व्यङ्गयोऽर्थः, अयं च वस्त्वलकाररसादिभेदात् त्रेधा, सोऽपि विधिप्रतिषेधादिरूपो अनेकधा, एतेषु को नामायं व्यङ्गयोऽर्थः ? व्यङ्ग्यत्वेऽपि वाच्यत्वं लक्ष्यत्वं च स्वीकर्तव्यमेव । तस्मात् व्यङ्गय ब्रह्मेत्युक्तेऽपि न कश्चिद् विशेषो दृश्यते । अथ शृङ्गारादिरसा यथा व्यगया एव भवन्ति न वाच्या एवं ब्रह्मापि तर्हि अभिव्यक्तस्वभावं तद् विद्यते अनभिव्यक्तस्वभावं वा ? आद्यविकल्पोऽसत्कल्प पुराऽप्यभिव्यक्तस्वभावत्वात्' । अथ तात्पर्यगम्यं ब्रह्म तथाहि वैदिकवाक्यैरज्ञाननिवृत्तिस्तस्यां च जातायां ब्रह्मैवाविशिष्यत इति तस्य तात्पर्यगम्यत्वम् । एतदप्यविचारितरमणीयं यतो ब्रह्मणस्तात्पर्यगम्यत्वं तदा कल्पते यदा वाच्यत्वं सिद्धं न स्यात् । "निर्मलनिश्चलनिष्क्रियरूपं व्योम यथैव घटे बहिरन्तः तदिदं परमार्थसत्तत्वं भूतगणेषु भवेद् वहिरन्तः” तथा “पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम्" [श्वेता उप०३.१५] इत्यादि तथा "सर्वं वै खल्विदं ब्रह्म'[ छां० उ ३. १५. १]इत्यादि तथा "तत्त्वज्ञानोत्पाद्यमिथ्याकारणप्रध्वंसतत्कार्यसामानाधिकरण्यं मोक्ष"[ ], "सत्यं ज्ञानमनन्तं ब्रह्म"[ तैत्ति० उ० २. ३] इत्यादिवाक्यैर्वाच्यत्वस्यापि स्वीकारात् । किञ्च, यथा भवद्भिरेवमुच्यते प्रपञ्चस्य विचार्यमाणस्याघटमानत्वात् ब्रह्मैवाविशिष्यते तथा कैश्चित् एवमपि वक्ष्यते प्रपञ्चस्य ब्रह्मणोऽपि चाघटमानत्वात् शून्यवाद एव तात्पर्यभूतः । अथ ब्रह्म घटमानं प्रपञ्चोऽपि घटमान एवेति त्यज्यतां मत्सरः । किञ्च, वेदवाक्यैर्दानाध्ययनयज्ञादीनां स्वरूपं प्रतिपाद्यते तथा ब्रह्मणोऽपि । न चैतेषां विशेषो दृश्यते । एवं सत्यपि यदि ब्रह्म तात्पर्यगम्य तर्हि तेऽपि तात्पर्यगम्या भवन्तु समानत्वात् । भवतु वा ब्रह्म तात्पर्यगम्यं किन्तु यथा ब्रह्म तात्पर्यगम्यं प्रपञ्चोऽपि तथैवास्तु । किञ्च, ब्रह्मणो लदयत्वे प्रपञ्चस्य मुख्यार्थवाच्यत्वं बलादायातम् । अथ मायावशात् प्रपञ्चस्य मुख्यार्थवाच्यत्वं तर्हि लक्ष्यत्वमपि ब्रह्मणस्तद्वशादेव भवतु ।
अथ प्रपञ्चोऽनिर्वाच्य एव यथा शुक्तिशकले कलधौतम् । तथाहि-शुक्तिशकले कलधौतं तावत् सन्न भवति रजतसाध्यार्थक्रियाया अकरणात् ।। असदपि
१. अत्र पाठ पतित प्रतिभाति ।