________________
परब्रह्मोत्थापनस्थलम् । अस्मन्मतप्रवेश । असत्यश्चेत् तेन व्यवहारः कथम् ? किञ्च, महाविद्यानुमानस्येव बह्वक्षरस्वल्पार्थस्यास्य मतस्य' तात्पर्यार्थस्त्वयमेव यत् स्वप्रकाशे परापेक्षितत्वं तच्च विचार्यमाणं युष्मच्चित्तवृत्तिमहिलायाः षण्ढालिङ्गनमिव न चिन्तिताभिलाषपूत् । यत् यत् स्वप्रकाशे परापेक्षं तत् तत् मिथ्येति प्रतिवादिनो व्याप्त्यसिद्धरसिद्ध एवायं हेत्वाभासः । चित्रभानु-सुधाभानु- प्रदीपादीनां प्रपञ्चान्तर्गतत्वेऽपि स्वप्रकाशे परापेक्षितत्वार्भावेन भागासिद्धोऽयम् । तथा ब्रह्मणोऽपि स्वरूपनिरूपणं वेदागमवाक्यैरेव कर्तुं शांशक्यते अतस्तस्यापि प्रकाशे परापेक्षितत्वेन मिथ्यात्वं' वभूव । किञ्च, स्वातिरेक इत्यत्र स्वस्मादतिरेकस्तदैव स्यात् यदा द्वयं सिद्धं भवति, यथा भीमार्जुनयोर्मध्ये भीमोऽधिकः । . अथ “सत्यानृते मिथुनीकृत्य व्यवहार' प्रवर्तते । एवमपि सत्यानृतयोमिथुनीकरणं कथमिति वाव्यम् । नहि खरविषाणस्यासत्यस्य सत्येन घटपटादिना संयोगः सम्भवी । सम्भवे वा वन्ध्यास्तनंधयपरब्रह्मणी अपि संयोजयितव्ये । । ..
अथ लोकन्यवहारापेक्षया प्रपञ्चः सत्योऽप्यङ्गीक्रियते । तत्र प्रातीतिकव्यावहारिकपारमार्थिकभेदात् त्रेधा सत्यम् । तथाहि-प्रथमज्ञाने रजतस्य सत्यस्य प्रतिभासात् तत्र प्रवृत्तिहेतुकत्वेन शुक्तिशकले रजतप्रतीतिः प्रातीतिकं सत्यं प्रथमम् । घटपटादयः प्रतिक्षणवीक्ष्यमाणा व्यवहियन्ते इत्येतत् द्वितीयं सत्यं व्यावहारिकम् । व्यावहारिकत्वं चैषां घटपटादीनां वाधप्रतिभासाभ्यां अनिर्वचनीयरूपत्वात् । बाधश्च ज्ञानान्तरेण शुक्तिकायां तत्कालमेव, रजताभापेन शुक्तिकाप्राप्तेः । घटपटादिपदार्थसार्थे तु परब्रह्मस्वरूपपरिज्ञानेनोत्तरकालं बाधः । प्रतिभासश्चोभयत्रापि विद्यत एव । पारमार्थिकसत्यं तु परब्रह्मैव तस्यैव तात्त्विकस्य सद्भावात् । तात्त्विकत्व च बाधप्रतिभासाभावात् ।
एतदपि हि सत्यतालक्षणं विचार्यमाणं विशरारुतां अञ्चति । तथाहि-प्रतीतिश्चेदसत्या तर्हि तद्बलात् सत्य कथम् । सत्यं चेत् प्रतीतिरसत्या कथम् ? एव व्यावहारिकसत्येऽपि व्यवहारः सत्योऽसत्यो वेति तदेव दूषणम् । किञ्च, घटपटादयो ब्रह्मणो भिन्ना अभिन्ना वा ? भिन्नत्वे द्वयसिद्धिः । अभिन्नत्वे तेषामसत्यत्वे तदप्यसत्यं जातम् । किञ्च, परब्रह्म एकमनेकं वा ? एक चेत् तर्हि कथं नवनवाकारैः प्रतीयते । अनेकता त्वभिगमेनैव बाधिता । अथाविद्यावशात् तदनेकधा प्रतिभासते । एवं तर्हि अविद्यासिद्धौ नानात्वसिद्धिः नानात्वसिद्धौ च अविद्यासिद्धिरिति स्फुटमितरेतराश्रयत्वम् । ।
'किञ्चाविद्या किंस्वरूपा 2 सदसद्विलक्षणत्वेनावाच्येति चेत् तर्हि परमार्थसत्या, १ तुलना-सत्यान्ते मिथुनीकृत्य नैसर्गिकोऽय लोकव्यवहार । ब्र०सू० शा०भा० ११.१