________________
श्रीभुवनसुन्दरसूरिरचितम् अवाच्या वा ? यदि सती तर्हि "एकमेवाद्वितीयं ब्रह्म' [छां०उ०६.२.१] इत्य. सम्बद्धम् , अविद्याया द्वितीयायाः सद्भावात् । असती चेत् तर्हि न तबलात् प्रपञ्चप्रतीतिः द्वयोरप्यसत्त्वात् । अवाच्या चेत् तर्हि सर्वथा एकदेशेन वा ? आद्यविकल्पेऽविधेति नाम्नाऽप्यावाच्यत्वं स्यात् । अस्ति च युष्मन्मतेनाविद्याशब्देन सा वाच्या । ततः प्रकट एवात्र विरोधः । द्वितीयविकल्पे सर्वेऽप्यवाच्याः स्यु. पदार्थाः, कैश्चित् प्रकारैः सर्वेपामवाच्यत्वात् । सदसद्विलक्षणत्वमवाच्यत्वमित्याशयः । तदपि क्लीवस्य कामिनीकामनायामपत्योत्पत्यभिलाषप्रायम् , सदसद्विलक्षणस्य वस्तुन एवासत्त्वात् । अथ सर्वव्यवहारापेक्षयाऽस्ति तर्हि व्यवहारोऽपि सन्नसन् वेति तदेव दूषणम् ।
किञ्च, प्रपञ्चो दृश्यः प्रत्यक्षेण । तैच्चासद्रूपं सद्रूपं वा ? आद्यविकल्पे न हि तेन बन्ध्यास्तनन्धयेनेव किञ्चित् साधयितुं पार्यते । द्वितीयविकल्पे प्रत्यक्षस्य सद्रूपत्वेऽद्वितीयवादहानिः । तथा प्रत्यक्षं विधायकं निषेधक वा ? नाद्यविकल्पः प्रपञ्चनिषेधसिद्धौ निबन्धनम्, प्रत्यक्षस्य विधायकत्वादेव । तथा चोक्तम्-'आहुर्विधात प्रत्यक्षं न निषेद्धृ विपश्चितः” [ब्र० सि० २.१] इति वचनात् । द्वितीयविकल्पस्तु वानगीकारादेव बाधितः ।
अथानुमानगभ्यः प्रपञ्चस्तर्हि दृश्यत्वादिति स्थाने अनुमेयत्वादिति वाच्यम् । एवं कल्पनेऽप्यजागलस्तनदोहनेनेव न भवदिष्टस्य दुग्धस्येव प्राप्तिः । तदप्यनुमानं सदसद्वेति दूषणपरम्परोद्घोषणा कार्या । अथासत्यादपि अनुमानात् परब्रह्मसिद्धियथा असत्यादपि जलचन्द्रान्नभचन्द्रस्य । एतदपि न चतुरचेतश्चमत्कारकारकम् , असत्येन खरविषाणेनेव कस्यापि साधयितुमशक्यत्वात् ।
____ अथ मिथ्यात्वं परमार्थसत्यत्ववैधुर्यं सिसाधयिषितम् । एव तर्हि सद्रूपता सिद्धा प्रपञ्चस्य । परमार्थसत्यत्वे विवाद । सोऽप्यपाकरिष्यते । तथाहि-किमिदं परमार्थसत्यत्वं नाम परब्रह्मरूपसत्त्वं प्रमाणप्रतिष्ठितार्थविषयत्वं वा ? आधविकल्पे सुतरां घटपट-शकट-मुकुटादिपदार्थसार्थपुरुषोत्तमस्य परमार्थसत्यत्वलक्ष्मीसम्भोगभाजनत्वम्, भवद्भिरेव परमब्रह्मविवर्तत्वेन स्वीकारात् “सर्व वै खल्विदं ब्रह्म' [छा.उ.३.१४.१] "नेह नानास्ति किञ्चन" [वृ०७० ४.४.१९] इत्यागमप्रामाण्यात् । द्वितीये ब्रह्मणः प्रमाणप्रतिष्ठितार्थविषयत्वे प्रपञ्चस्यापि प्रमाणप्रतिष्ठितार्थरूपत्वम्, ब्रह्मरूपत्वात् तस्य । तथा च घटपटादयः पदार्थाः सत्याः, प्रतिभासमानत्वात् परब्रह्मवत् इत्यनेनापि तत्सिद्धिः ।
अथ स्वव्यवहारातिरेकि स्वदर्शनापेक्षया नियतविधिमात्रं दृश्यत्वमाकासितं तर्हि , एतदेव विचार्यते । स्वशब्दस्य प्रपञ्चापेक्षत्वे प्रपञ्च सत्योऽसत्यो वा ? आद्यविकल्पे
१ तत् प्रत्यक्षम् ।