________________
- श्रीभुवनसुन्दरसूरिरचितम्
. ॥ परब्रह्मोत्थापनस्थलम् ॥ - श्रीवीरजिनमानम्य सर्वातिशयशालिनम् ।
वैतण्डिकनिरासेन स्थाप्यते जैनशासनम् ॥ — इह हि युक्तिकलापोल्लोलकल्लोलमालाव्याप्तसकलदिक्चक्रवालस्याद्वादं समुद्रमिवावगाहयितुमथ सामर्थ्य बिभ्राणाः, नित्यानित्यत्वसदसत्त्वादिस्ववचनरचनाप्रसृत्वरकरप्रकरैर्भासितभूमण्डलान्तं च कौशिका इव सहस्रकरं दृग्गोचरीकर्तुमथ प्रभुतां दध्राणाः, गतसर्वप्रतिभाविलासाः कृकलासा इव तं चोपहसन्तः, प्रचण्डस्वतुण्डताण्डवाडम्बरबलेनैव सर्वत्र विकसन्तः प्रमाणप्रमेयव्यवस्थाबाहीकाः, प्रत्यक्षादिप्रमाणप्रतिष्ठितप्रपञ्चादिवस्तुनोऽपि निर्लोठनेन गतसकलहीकाः, स्वीकृतस्याद्वादवादवादिवृन्दारकवदनोद्भूतप्रमूतयुक्तिव्यक्तिमहानदीपूरप्लाव्यमानाः कुशकागावलम्बनानीव नानामतानि प्रापनीपद्यन्तः अन्यतीर्थीयाः । .
... । तत्र वेदान्तमतानुसारिण एवं प्रमाणयन्ति-प्रपञ्चो मिथ्या दृश्यत्वात् शुक्तिशकलकलधौतवत् रज्जुभुजङ्गवत् स्वप्नोपलब्धराज्यादिवच्च ।
___ अत्र परतुण्डकण्डव्यपोहाय व्यापार्यन्ते काश्चिदुत्तरव्यतिकरौषधप्रक्रियाः । असिद्धविरुद्धानेकान्तिकदोषा. प्रत्यक्षा हर्यक्षा इव त्रयस्त्रासयन्त्यमुं हेतुहरिणपोतम् । तथाहिदृश्यत्वम् अत्र कस्यापेक्षया विवक्षितं शुभवद्भिर्भवद्भिः १ किं परमाण्वादिसूक्ष्माकारापेक्षया स्तम्भादिस्थूलाकारापेक्षया वा ? आद्यविकल्पोऽसम्भवबाधितत्वेनावकेशितरुरिव न भवता मनोरथफलावलीप्राप्त्यै, परमाणूनां तद्गतरूपरसगन्धस्पर्शादीनां च भवतामदृश्यत्वात् । द्वितीयविकल्पोऽप्यसत्कल्प एव स्थूलाकाराणामपि मन्दरपुरन्दरस्वर्गभर्गभार्गवादीनां भवतामदृश्यत्वात् ।
__ अथ मा भवन्त्वस्माकं सर्वेऽपि दृश्याः किन्तु कस्यापि पुरुषविशेषस्य भविष्यन्ति तर्हि सोऽपीन्द्रियज्ञानग्राही अतीन्द्रियज्ञानग्राही वा ? आधविकल्पे प्रागुक्तमेव दूषणं लालगीति । द्वितीयविकल्पेऽतीन्द्रियज्ञानग्राह्यपि सर्वज्ञो, वा स्यादसर्वज्ञो वा ? द्वितीयविकल्पे प्राच्य एव दोष । आद्यविकल्पोऽपि न जाघटीति सर्वज्ञस्य भवद्भिरनङ्गीकारात् ।
__ अथ न हि परमाण्वाद्यस्माभिरङ्गीक्रियते प्रपञ्चमिथ्यात्वस्यैव प्रतिज्ञानात् तर्हि आश्रयासिद्धतामातङ्गीस्पर्शपातक हेतुश्रोत्रियस्य, प्रपञ्चस्याऽऽश्रयस्य युष्मन्मतेनासत्त्वात् ।
अथ प्रपञ्चो असन्नप्यनाद्यविद्याबलेन दृश्यते इति चेत् तर्हि सा सती असती