________________
श्रीभुवनसुन्दरसूरिरचितम्
अथ शुक्तिकले कलधौतमसत् तर्हि प्रतिभासते कथमिति चेत चाकचिक्यादिसाधारणधर्मसद्भावादिति ब्रूमः । ननु तर्हि खरविषाणस्यापि कथं न प्रतिभासः ? साधारणधर्माभावादित्यवेहि । यतो यत् सर्वथा नास्त्येव तस्य धर्मा अपि कथं कल्पयितुं शक्या' । अथ कलधौतमपि तत्र नास्ति । माऽभूत् तत्रान्यत्र सद्भावेन पुरा दृष्टत्वेन च तद्वर्मणा प्रतिभासो युक्त एव । अथ या या प्रतीति सा सा भ्रान्तैव तर्हि ब्रह्मणोऽपि प्रतीतिर्भान्ता स्यात् प्रतीयमानत्वात् । एवं च लाभमिष्टतो लहान । अथ ब्रह्माप्रतीयमानं तहि सर्वथा किचिद्वा आद्य विकल्पस्तर्हि ब्रह्मविषयवचनानामप्रवृत्तेर्मौनमेव व श्रेय तदुक्तौ । अथ द्वितीयः पक्षस्तर्हि कथश्चित् प्रपञ्चो न प्रतीयते परमाण्वादीनामप्रतीयमानत्वात् । तस्मात् सदसद्विलक्षणत्वं प्रपञ्चस्य कथमपि न जाघटीति । तदघटने च दुरापास्तमेवानिर्वचनीयत्वम् ।
५४
भवतु वाऽनिर्वचनीयत्वं स्वीकार्य, युक्तीनामुभयत्र समानतया [या. ] काश्चित् प्रपञ्चयुक्त प्रपञ्चयिष्यन्ते ताः सर्वा अपि ब्रह्मणि लालगत्य कथं निवारणीया ? किञ्च, सर्वथाऽनिर्वाच्यत्वे प्रपञ्चस्य सदसद्विलक्षणत्वशब्देनापि वाच्यत्वं न युक्तम् | तथा प्रपञ्चशब्देन घटपटादिशब्दैरपि च वाच्यता न युक्ता । किश्व, प्रपञ्चस्याऽनिर्वाच्यत्वे मिथ्यात्वावगमोऽपि कथम् ' तथात्वप्रतिपादकाऽऽगमादिति चेत् तर्हि तथात्वप्रतिपादकवचनै. स वाच्योऽवाच्यो वा ? वाच्यत्वे दुर्निर्वचनीयताविरोध. । अवाच्यत्वे तत्परिज्ञानं दुर्घटम् । किञ्च तत्तथात्वप्रतिपादकवचनानि प्रपञ्चमध्ये वहिर्वा ? मध्ये चेत् तर्हि तान्यपि वाच्यान्यवाच्यानि वा ? वाच्यानि चेत् तर्हि तद्वत् प्रपञ्चस्यापि वाच्यता । अवाच्यानि चेत् तर्हि यानि वक्तुमशक्यानि तैः प्रपञ्चमिथ्यात्वं कथं प्रतिपादयितुं शक्यम् | अथ द्वितीयो विकल्पस्तर्हि तानि सत्यान्यसत्यानि वा ? सत्यानि चेत् तर्हि अद्वैतवादहानिः । असत्यानि चेत् तर्हि न तै काऽपि सिद्धिः । अथ व्यवहारसत्यानि तर्हि व्यवहारोऽपि ज्ञानरूपोऽज्ञानरूपो वा प्रपञ्चान्तर्बहिर्वा सत्यमसत्यं वेति तदेवाssवर्तते ।
2
ज्ञानं चेत् तर्हि
किञ्च, प्रपञ्चशब्देन सर्वे पदार्थाः एक कश्चिद् वा विवक्षित ? एकचेत् तन्न- युक्तं यत. केनापि पृष्टं भो ! एतद्वस्तु तब कीदृशमित्युक्तेऽवाच्यमिति न वक्ष्यते तूष्णीमपि न स्थास्यते भवता किन्तु समग्रमपि तत् स्वरूपमाख्यास्यते । तथा च सति जातं वाच्यत्वम् । अथ सर्वे, तर्हि यथा एकस्तथा सर्वेऽपि भवन्तु वाच्या का नाम अति. । अथ सामस्त्येन एकस्यापि स्वरूपं प्रतिपादयितुं न शक्यं तर्हि सामस्त्येन ब्रह्मणोऽपि स्वरूपं तथैवास्ति (स्तु) । एवमनिर्वाच्यत्वं विचार्यमाणं कथमपि