________________
परब्रह्मोत्थापनस्थलम् ।
५५ न जाघटीति । तस्मात् कदाग्रहं मुक्त्वा प्रपञ्चस्य मायाया ब्रह्मणोऽपि च वाच्यत्वमेव स्वीकार्यमिति दृश्यत्वहेतोरसिद्धतोद्भावनप्रकारः । । ।। अथास्य हेतोविरुद्धतोद्भाव्यते । तथाहि- साध्यविपर्ययेणैव यस्य हेतोरन्यथानुपपत्तिः स विरुद्धः । अत्र च प्रपञ्चमिथ्यात्वविपर्ययेणैवास्य हेतोवृत्तिः । तथाहि-यत्र यत्र दृश्यमानत्वं तत्रैव सद्रूपता । न हि असत् केनापि दृष्टम् । अथ जलचन्द्रादयोऽसन्तोऽपि दृश्यन्ते । न, जैनैस्तेषां सत्यत्वस्वीकारात् । दृष्टान्तस्य प्रतिवाद्यसिद्धत्वात् । तथाहि-जलचन्द्रस्वप्नज्ञानादि भावरूपं नैमित्तिकत्वात् घटवत् । जलविम्बं भावः सम्यग्गमकत्वात् अग्निगमकधूमवत् । स्वमज्ञानं भावः ज्ञानत्वात् घटज्ञानवत् । शुक्तिशकलकलधौत-रज्जुभुजगादयोऽपि न सर्वथाऽसत एव प्रतीयन्ते, धावल्यादिसमानगुणत्वेन भ्रान्तिजनकत्वादपटुदृशाम् । न हि निर्मलदृशां तत्र भ्रान्तिः । • बहूनां मध्ये एकस्यैव कस्यचिदपटुक्त्वात् । सर्वथाऽसदपि चेत् दृश्यते तदा षष्ठभूतमपि क्वचित् दृश्यताम् ।
अथानैकान्तिकता हेतोर्भाव्यते । यस्याऽन्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः । सन्दिग्धविपक्षवृत्तित्वेन निर्णीतविपक्षवृत्तित्वेन च सा द्विधा । अयं च निर्णीतविपक्षवृत्तिकः । तथाहि-न हि यत् दृश्यं तन्मिथ्यैव । परब्रह्मणो दृश्यत्वेऽपि सत्यत्वेन स्वीकारात् । किञ्च, दृश्यत्वं कस्यापेक्षया युष्मदाद्यपेक्षया योग्यपेक्षया वा ? योगिनां तु सर्व प्रत्यक्षमेवास्ति । भवदादीनां तु मेर्वादयोऽप्यदृश्याः । अथादृश्यं परब्रह्म अव्यवहार्यत्वात् खपुष्पवत् । एवं तर्हि नास्ति परब्रह्म अदृश्यत्वात् अव्यवहार्यत्वाच्च खपुष्पवदेव । तथाऽयं पक्षः प्रत्यक्षवाधित' प्रत्यनुमानबाधितश्च । प्रत्यक्षवाधा, तावदाबालगोपालाङ्गनाप्रसिद्धैव । अनुमानबाधा चेत्थम्-प्रपञ्चोऽपि मिथ्या न भवति असद्विलक्षणत्वात् आत्मस्वरूपवत् । तथा साध्यविकलश्चायं दृष्टान्त. शुक्तिशकलकलधौते प्रपञ्चान्तर्गतत्वेन मिथ्यात्वस्य साध्यमानत्वात् । अथेदमनुमानमसाध्यसाधकं मिथ्यारूपत्वात् जलचन्द्रवदिति चेन्न असाध्यसाधके गन्धर्वनगरशुक्तिशकलकलधौतादौ विपक्षे जलचन्द्रादौ सपक्षे पक्षे चास्मिन्ननुमाने भिथ्यारूपत्वस्यास्य हेतोर्वत नेनानैकान्तिकत्वात् । तदेवेदमनुमानं यथा यथा विचार्यते तथा तथा न क्षोदं शमते ।। . ... तथा प्रामारामादय पदार्थाः प्रतिभासान्त प्रविष्टाः प्रतिभासमानत्वात् प्रतिभासस्वरूपवत् । अत्र प्रतिभासः स्वप्तः परतो वा ? नाद्यः पक्षः घटपटादीनां स्वतः कदापि प्रतिभासाभावात् ।
न पं कदापि, जानन्ति । अथ