________________
५६
श्रीभुवनसुन्दरसूरिरचितम् । द्वितीयः सोऽपि न युक्तः, परस्य ज्ञाने चेदेते प्रतिभाताः तदैतावता तेपामसत्त्वं कथं भवेत् ? अथ ते सन्त एव सन्ति परब्रह्मणो दिवाः तर्हि ब्रह्म मजडं ते च जडा इति मेदः कथं ? यस्य यद्रूपं भवति तत् तदाकारमेव दृष्टम् । न हि घटपटादयो मृदाकाराद् व्यतिरिक्ता दृष्टाः कुत्रापि | किश्चैवमनुमाने क्रियमाणे इत्थमप्यनुमानं भविष्यति-घटपटादयो दीपप्रमायां प्रविष्टाः दीप्यमानत्वात् , यहीप्यते तदीपप्रभायां प्रविष्टम् यथा दीपप्रभास्वरूपम तथा प्रतिभासो ज्ञानम् । यदि तत्र ग्रामारामादयः प्रविष्टास्तदा दृश्यन्ते कथम् ?, प्रतिभासो हि हृदयान्तर्वर्तते, तत्र प्रविष्टानां तेषां दर्शनाभावात् । अथ प्रदीपप्रभायां न घटपटादयः सर्वेऽपि दीप्यन्ते । एवं तर्हि युष्मदादिप्रतिभासेऽपि न परमाणुमन्दरपुरन्दरादयः प्रतिभासन्ते । तस्मान्न किञ्चिदेतत् । अथानुमानवैपरीत्यमप्यत्र सम्भाव्यते । तथाहि-प्रतिमासो ग्रामारामादिप्रविष्टः, तान् विना तस्य कुत्राप्यदृश्यमानत्वात् । यद् यद् विना कुत्रापि न दृश्यते तत् तत्रैवास्ति, यथा परमब्रह्मस्वरूपं परमब्रह्मणि, घटादिस्वरूपं घटादिपु । एवं च लाभमिच्छतो मूलहानिः ।
अथ विधिरेव साध्यते नाविधिस्तदप्यसत् । कुत्रापि भूतले घटपटादीनामभावे प्रतीयमानेऽविधेरपि प्रतीयमानत्वात् । किञ्च, घटपटादिषु विधौ साध्यमानेऽनन्त एव सिद्धा' परमब्रह्मवत् । अश्रोच्यते अनुवृत्ताकारं सत्तैकरूपं सर्वं प्रतीयते । एतदपि न, अनुवृत्तव्यावृत्ताकारस्य प्रतीयमानत्वात् । तथा चोक्तम्
निर्विशेष हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥ [ श्लो० वा० आकृति० १०7
अथ प्रपञ्चो मिथ्या अनात्मप्रकाशत्वात् । यत् सत्यं तदात्मप्रकाशं यथा परब्रह्म । अत्रानुमाने विपर्यासोऽपि कर्तुं शक्यः । तथाहि-परब्रह्म मिथ्या पराप्रकाशनात् । यत् सत्यं भवति तत् परप्रकाशकं दृष्टं यथा इन्द्रियज्ञान-भानु-प्रदीपादयः । अथ ब्रह्म परप्रकाशकं तदा सिद्धं प्रपञ्चस्य सत्यत्वं प्रकाश्यप्रकाशकयोरुभयोरपि सिद्धत्वात् ।
अथ भावा ब्रह्मविवर्ता सत्त्वैकरूपेणान्वितत्वात् । यद् यद्रूपेणान्वित नत् तदात्मकमेव यथा घटपटादयो मृद्रूपेणान्विताः मृदात्मका एव, सत्त्वेकरूपान्वितं च सकलं वस्तु तस्माद ब्रह्मविवर्तरूपमेव तत् । अत्रोच्यते-अनैकान्तिको हेतुः । न हि यद् यद्रूपेणान्वित तत् तदेव भवति । रूपान्वितत्वेऽपि घटपटादीनां रूपस्वरूपत्वस्याभावात् । प्रत्यक्षवाधितश्च पक्षः । घटपटादिषु ब्रह्मविवर्तत्वस्य केनाप्यप्रतीयमान