________________
४५.
वादचतुष्कम्
अस्तु वा यथाकथञ्चिज्जगतः कार्यत्वम् । तथापि कार्यमात्रमत्र हेतुत्वेन विवक्षितम् तद्विशेषोवा ±यद्याद्यस्तर्हि न ततो बुद्दिमत्कर्तृविशेषसद्धिः । तेन सह तस्य व्याप्त्यसिद्धेः । किन्तु, कर्तृसामान (न्य)स्य [तु सिद्धे ।] तथा च हेतोरकिञ्चित्करत्वं साध्यविरुद्धसाधनाद् विरुद्धत्व वा । ततः कार्यत्वं कृतबुद्धयुत्पादक बुद्धिमत्कर्तुर्गमक न सर्वं; सारूप्य - मात्रेण च गमकत्वे बाष्पादेरप्यग्निं प्रति गमकत्वप्रसङ्गो महेश्वरं प्रत्यात्मत्वादेश्च सादृश्यात् संसारित्वप्रसङ्ग ं । किञ्चिज्ज्ञत्वाऽखिलजगदकर्तृत्वानुमापकानुषङ्गस्तुल्याक्षेपसमाधानत्वात् । ततो बाष्पधूमयोः केनचिदंशेन साम्येऽपि यथा कुतश्चिद्विशेषाद धूमोऽग्निगमयति न बाष्पादिस्तथा क्षित्यादी तरकार्यत्वयोरपि कश्चिद्विशेषोऽभ्युपगमः (म्यः) । अथ द्वितीयस्तर्हि हेतोरसिद्धत्वं कार्यविशेषस्याभावात्, भावे वा जीर्णकूपप्रासादादिवदक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वप्रसङ्गः । समारोपान्नेति चेत् सोऽप्युभयत्रा विशेषतः किं न स्यात् उभयत्र कर्तुरतीन्द्रियत्वाऽविशेषात् ।
"
अथ प्रामाणिकस्यास्तेवा (स्यास्त्येवा) त्र कृतबुद्धिः । ननु कथ तस्य तत्र कृतत्वावगमोऽनेनानुमानेनाऽनुमानान्तरेण वा 2 आद्येऽन्योन्याश्रयस्तथा हि सिद्धविशेषणाद्वेतोरस्योत्थानम्, तदुत्थाने च हेतोर्विशेषण सिद्धिरिति । द्वितीयपक्षेऽनुमानान्तरस्यापि सविशेषेण हेतोरेवोत्थानम् । तत्राप्यनुमानान्तरात् तत्सिद्भावनवस्था । तन्न कृतबुद्धयुत्पादकत्वरूपविशेषण सिद्धिस्तथा च विशेषणासिद्धत्वं हेतोः ।
यदुच्चयते खातप्रतिपूरितभूनिदर्शनेन कृतकानात्मनि कृतबुद्धयुत्पादकत्व - नियमाभाव इति तदप्यसत् तत्राकृत्रिम भूभागादिसारूप्यस्य तदनुत्पादकस्य सद्भावात्, तदनुत्पादकस्योपपत्तेः । न च क्षित्यादावप्य कृत्रिमसस्थानसारूप्यमस्ति येनाकृत्रिमत्वबुद्विरुत्पद्यते तस्यैवानभ्युपगमादभ्युपगमे वाऽपसिद्धान्तप्रसक्तिः स्यादिति कृतबुद्धयुत्पादकत्वरूपविशेषणासिद्धत्व हेतो' । सिद्धयतु वा तथाप्यसौ विरुद्धो घटादाविव शरीरादिविशिष्टस्यैव बुद्धिमत्कर्तुरत्र प्रसाधनात् ।
नन्वेवं दृष्टान्तदान्तिकसाम्यान्वेपणे सर्वत्र हेतूनामनुपपत्तिरिति चेन्न । धूमाधनुमाने महानसेतरसाधारणस्याग्ने प्रतिपत्तेः । अत्राप्येवं बुद्धिमत्सामान्यप्रसिद्धेर्न विरुद्धत्वमित्ययुक्तम्, दृश्यविशेषाधारस्यैव तत्सामान्यस्य कार्यत्वहेतो' प्रसिद्धेर्नादृश्य विशेषाधारस्य, तस्य स्वप्नेऽप्यप्रतीतेः खरविषाणाधारतत्सामान्यवत् । ततो यादृगात् कारणाद् यादृशं कार्यमुपलब्धं तादृशादेव तादृशमनुमातव्यम् । यथा यावद्धर्मात्मकाद् वह्नेर्यावद्धर्मात्मकस्य धूमस्योत्पत्ति सुदृढप्रमाणात् प्रतिपन्ना तादृगादेव धूमात् तादृशस्यैवाग्नेरनुमानमित्यैतेन साध्य-साधनयोर्विशेषेण व्याप्तौ गृह्यमाणायां सर्वानुमानोच्छेदप्रसक्तिरित्या