________________
अज्ञातकर्तृकम् द्यपास्तं द्रष्टव्यमिति । तथाऽकृष्टप्रभवस्तरुतृणादिभिर्व्यभिचार्यय हेतुः । द्विविधानि कार्याणि उपलभ्यन्ते । कानिचिद् बुद्धिमत्पूर्व काणि यथा घटादीनि । कानिचित्तु तद्विपरीतानि यथाऽकृष्टप्रभवतृणादीनि । तेषां पक्षीकरणादव्यभिचारे स स्यामस्तत्पुत्रत्वादितरपुत्रवदित्यादेरपि गमकत्वप्रसङ्गान्न कश्चिद्वेतुर्व्यभिचारी स्याद् व्यभिचार विपयस्य सर्वत्रापि पक्षीकर्तुं शक्यत्वात् । ईश्वरवुद्धचादिभिश्च व्यभिचारस्तेपा कार्यत्वे सत्यपि समवायिका रणादीश्वराद् विभिन्नबुद्रिमत्पूर्व कत्वाभावात् । तदभ्युपगमे चानवस्था । तथा कालात्ययापदिष्टश्चायमकृष्टप्रभवाड्कुरादौ कञभावस्याध्यक्षेणाध्यवसायात् । अग्नेरनुष्णत्वे साध्ये द्रव्यत्ववत् ।
___ ननु तत्राप्यदृश्य ईश्वरवत् कर्तेति चेत्तन्न । यतस्तत्र तत्सद्भावोऽस्मादेवाऽन्यतो वा प्रमाणात् सिद्धयेत् । प्रथमपक्षे चक्रकम्, अन्यतो हि तत्सद्भावे सिद्धेऽस्यादृश्यत्वेनालम्भसिद्धिस्तत्सिद्धौ च कालात्ययापदिष्टत्वाभावस्ततश्चास्मत्तत्सद्भावसिद्धिरिति । द्वितीयपक्षोऽप्ययुक्तस्तद्भावावेदकस्य प्रमाणान्तरस्यैवाभावात् ।
अस्तु वा तत्र तत्सद्भावस्तथाप्यस्यादृष्टत्वे शरीराभावः कारणं विद्यादिप्रभावो जातिविशेषो वा । प्रथमपक्षे कर्तृत्वानुपपत्तिरशरीरत्वान्मुक्तात्मवत् । ननु शरीराभावेऽपि ज्ञानेच्छाप्रयत्नाश्रयत्वेन स्वशरीरकरणे कर्तृत्वमुपपद्यत इत्यप्यसमीक्षिताभिधानम् । शरीरसम्बन्धेनैव तत्प्रेरणोपपत्तेः । शरीराभावे मुक्तात्मवत् तदसभवात् । शरीराभावे च ज्ञानाद्याश्रयत्वमप्यसभाव्यम् । तदुत्पत्तावस्य निमित्तकारणत्वात् । अन्यथा मुक्तात्मनोऽपि तदुपपत्तिप्रसक्ते. । विद्यादिप्रभावस्य चादृश्यत्वहेतुत्वे कदाचिदसौ दृश्येत । न खलु विद्याभृतां शाश्वतिकमदृश्यत्वं ददृशे । पिगाचादिवजातिविशेषोऽपि नादृश्यत्वे हेतु', एकस्य जातिविशेषाभावात् , अनेकव्यक्तिनिष्ठत्वात् तस्याः ।
अस्तु वा दृश्योऽदृश्यो वाऽसौं, तथापि किं सत्तामात्रेण १ ज्ञानवत्त्वेन २ ज्ञानेच्छाप्रयत्नवत्त्वेन ३ तत्पूर्वकव्यापारेण ४ ऐश्वर्येण ५ वा क्षिल्यादे. कारणं स्यात? तत्राद्यपक्षे कुलालादीनामपि जगत्कर्तृत्वमनुषज्यते सत्वाविशेषात् । द्वितीये तु योगिनामपि कर्तत्वापत्ति. । तृतीयोऽप्यसाम्प्रतोऽशरीरस्य पूर्वमेव ज्ञानाद्याश्रयत्वप्रतिषेधात् । चतुर्थोऽप्यसंभाव्योऽशरीरस्य कायवाक्कृतव्यापारत्वासम्भवात् । ऐश्वर्यमपि ज्ञातृत्वं कर्तृत्वमन्यद्वा । ज्ञातृत्व चेत् तत् किं ज्ञातृत्वमात्र सर्वज्ञत्व वा ? आद्यपक्षे ज्ञातैवासी स्यान्नेश्वरोऽस्मदाद्यन्यज्ञातृवत् । द्वितीयेऽप्यस्य सर्वज्ञत्वमेव स्यान्नैश्वर्य मुगतादिवत् । अथ कर्तृत्व तर्हि कुम्भकारादीनामप्यनेककायकारिणामैश्वर्यप्रसक्ति । नाप्यन्यत्, इच्छाप्रयत्नव्यतिरेकेणान्यस्यैश्वर्यनिबन्धनस्येश्वरेऽभावात् । किञ्चे