________________
वादचतुष्कम् । श्वरस्य जगन्निर्वा(मा)णे यथारुचिप्रवृत्तिः १ कर्मपारतन्त्र्येण २ करुणया ३ क्रीडया ४ निग्रहानिग्रहविधानार्थं ५ स्वभावतो ६ वा । अत्राऽऽद्यविकल्पे कदाचिदनादृश्येव सृष्टिः स्यात् । द्वितीये स्वातन्त्र्यहानिस्तृतीये सर्वमपि जगत् सुखितमेव करोति । अथेश्वरः किं करोति पूर्वार्जितैरव कर्मभिर्वशीकृता दुःखमनुभवन्ति । तदा तस्य क. पुरुषकारः ? अदृष्टापेक्षस्य च कर्तृत्वे किं तत्कल्पनया जगतस्तदधीनतैवास्तु । चतुर्थपञ्चमयोस्तु वीतरागद्वेषताऽभावः प्रसज्यते । तथाहि-रागवाने(नी)श्वरः क्रीडाकारित्वात् बालवत् तथाऽनुग्रहप्रदत्वाद् रागवत् तथा द्वेषवानसौ निग्रहप्रदत्वात् तद्वदेवेति । अथ स्वभावतस्तहिं अचेतनस्यापि जगत एव स्वभावतः प्रवृत्तिरस्तु किं तत्कर्तृकल्पनयेति ।
न कार्यत्वहेतुर्बुद्धिमन्तं कर्तारमीश्वरं साधयति । एवं सन्निवेशविशिष्टत्वादचेतनोपादन(दान ?)त्वादभूतभावित्वादादयोऽपि स्वयमुत्थाग्या स्तुल्याक्षेपसमाधानत्वात् । किञ्च, क्षित्यादेर्बुद्धिमत्पूर्वकत्वे साध्ये प्रदीयमानाः सर्वेऽपि हि हेतवो विरुद्धा दृष्टान्तानुग्रहेण सगरीरासर्वज्ञासर्वकर्तृपूर्वकत्वसाधनात् । न च धूमात् पावकानुमानेऽप्ययं दोषः । तत्र तार्णपार्णादिविशेषाधारवह्निमात्रव्याप्तस्य धूम्स्य दर्शनात् । नैवमत्र सर्वज्ञासर्वज्ञकर्तृविशेषाधिकरणतत्सामान(न्य)कार्यत्वस्यास्ति व्याप्तिः । सर्वज्ञस्य कतुरतोऽनुमानात् प्रागसिद्धर्व्यभिचारिणश्वामी, बुद्धिमन्तमन्तरेणापि विद्युदादीनां प्रादुर्भावविभावनात् । स्वप्नाद्यवस्थायामबुद्धिमत्पूर्वस्यापि कार्यस्य दर्शनान्चेति । काया(ला)त्ययापदिष्टाश्चैते, प्रत्यक्षागमबाधितपक्षानन्तरं प्रयुक्तत्वात् । तद्वाधा च पूर्वमेव दर्शिता । प्रकरणसमाश्चामी प्रकरणचिन्ताप्रवर्तकानां हेत्वन्तराणां सद्भावात् । तथाहि-ईश्वरो जगत्कर्ता न भवति निरुपकरणत्वाद् दण्डचक्र-चीवराद्युपकरणरहितकुलालवत् । तथा व्यापित्वादाकाशवत् । एकत्वात् तद्वद् । इत्यादय इति ।
नित्यत्वादोनि तु विशेषणानि तद्वयवस्थापनायानीयमानानि षण्ठं प्रति कामिन्या रूपसम्पन्निरूपणप्रायाण्यपकर्णनीयान्येव । विचारासहत्वल्यापनार्थ तु किञ्चिदुच्यते । तत्रादौ नित्यत्वं विचार्यते । तच्चेश्वरे न घटते । तथाहि-नेश्वरो नित्यः स्वभावभेदेनैव क्षित्यादिकार्यकर्तृत्वात् । अप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थं नित्यमिति हि नित्यत्वलक्षणाभ्युपगमात् । स्वभावभेदानभ्युव(मेदानभ्युपगमे) सृष्टिसहारादिविरुद्ध . कार्यकारित्वमतिदुर्घटम् । नापि तज्ज्ञानादीनां नित्यत्वं वाच्यं प्रतीतिविरोधात् । ईश्वरज्ञानादयो न नित्या ज्ञानादित्वादस्मदादिज्ञानादिवदित्यनुमानविरोधाच्चेति । एतेन