Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 76
________________ अज्ञातकर्तृकम् तदीयज्ञानादयो नित्या इत्यादि यदवादि तदपोहितमूहनीयम् । सर्वज्ञत्वमप्यस्य केन प्रमाणेन ग्राह्यम् । न तावत् प्रत्यक्षेण तस्येन्द्रियार्थसन्निकर्षोत्पन्नत्वेनातीन्द्रियार्थग्रहणासमर्थत्वात् । नाप्यनुमानेनाव्यभिचारिलिङ्गाभावात् । ननु जगद्वैचित्र्याऽन्यथाऽनुपपत्तिरूपं तदस्त्येवेति चेन्न तेन सहाविनाभावाभावात् । जगद्वैचित्र्यस्य सार्वज्ञ विनापि शुभाशुभकर्मपरिपाकादिवशेनोपपद्यमानत्वात् । किञ्चायं यदि सर्वज्ञस्तदा जगदुपप्लवकरणस्वैरिण' पश्चादपि कर्तव्यनिग्रहानसुरादीस्तदधिक्षेपकृतोऽस्मदादींश्च किमर्थ सृजतीति नाय सर्वज्ञः । तथा बहूनामेककार्यकरणे वैमत्यसम्भावनया महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्र-कलत्र-मित्रादिपरित्यजने शून्यारण्यानोसेवनतुलामाकलयति । अनेककीटिकासरघाशतसम्पाद्यत्वेऽपि शक्रमूर्द्धमधुच्छत्रादिकार्याणामेकरूपतयाऽविगानेनोपलम्भात् । किञ्चेश्वरस्याखिलजगत्कर्तृत्वेऽभ्युपगम्यमाने शास्त्राणा(णां) प्रमाणेतरव्यवस्थाविलोपः स्यात् । तथाहि सर्व प्रमाणं शास्त्रमीश्वरप्रणीतत्वादितरतत्प्रणीतशास्त्रवत् । प्रतिवाद्यादिव्यवस्थाविलोपश्च सर्वेषामीश्वरादेशविधायित्वेन तत्प्रतिलोमाचरणानुपपत्तेः प्रतिवाद्यभावप्रसङ्गादिति न सृष्टिकरस्य महेश्वरस्य कथञ्चिदपि सिद्धिः । ॥ ईश्वरोत्थापकस्थलं समाप्तम् ॥' १. लिपिकारस्य पुप्पिका-'पण्डितश्रीरामसुन्दरगणिशिष्यरुपसुन्दरेण लिखितः' ।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193