Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 75
________________ वादचतुष्कम् । श्वरस्य जगन्निर्वा(मा)णे यथारुचिप्रवृत्तिः १ कर्मपारतन्त्र्येण २ करुणया ३ क्रीडया ४ निग्रहानिग्रहविधानार्थं ५ स्वभावतो ६ वा । अत्राऽऽद्यविकल्पे कदाचिदनादृश्येव सृष्टिः स्यात् । द्वितीये स्वातन्त्र्यहानिस्तृतीये सर्वमपि जगत् सुखितमेव करोति । अथेश्वरः किं करोति पूर्वार्जितैरव कर्मभिर्वशीकृता दुःखमनुभवन्ति । तदा तस्य क. पुरुषकारः ? अदृष्टापेक्षस्य च कर्तृत्वे किं तत्कल्पनया जगतस्तदधीनतैवास्तु । चतुर्थपञ्चमयोस्तु वीतरागद्वेषताऽभावः प्रसज्यते । तथाहि-रागवाने(नी)श्वरः क्रीडाकारित्वात् बालवत् तथाऽनुग्रहप्रदत्वाद् रागवत् तथा द्वेषवानसौ निग्रहप्रदत्वात् तद्वदेवेति । अथ स्वभावतस्तहिं अचेतनस्यापि जगत एव स्वभावतः प्रवृत्तिरस्तु किं तत्कर्तृकल्पनयेति । न कार्यत्वहेतुर्बुद्धिमन्तं कर्तारमीश्वरं साधयति । एवं सन्निवेशविशिष्टत्वादचेतनोपादन(दान ?)त्वादभूतभावित्वादादयोऽपि स्वयमुत्थाग्या स्तुल्याक्षेपसमाधानत्वात् । किञ्च, क्षित्यादेर्बुद्धिमत्पूर्वकत्वे साध्ये प्रदीयमानाः सर्वेऽपि हि हेतवो विरुद्धा दृष्टान्तानुग्रहेण सगरीरासर्वज्ञासर्वकर्तृपूर्वकत्वसाधनात् । न च धूमात् पावकानुमानेऽप्ययं दोषः । तत्र तार्णपार्णादिविशेषाधारवह्निमात्रव्याप्तस्य धूम्स्य दर्शनात् । नैवमत्र सर्वज्ञासर्वज्ञकर्तृविशेषाधिकरणतत्सामान(न्य)कार्यत्वस्यास्ति व्याप्तिः । सर्वज्ञस्य कतुरतोऽनुमानात् प्रागसिद्धर्व्यभिचारिणश्वामी, बुद्धिमन्तमन्तरेणापि विद्युदादीनां प्रादुर्भावविभावनात् । स्वप्नाद्यवस्थायामबुद्धिमत्पूर्वस्यापि कार्यस्य दर्शनान्चेति । काया(ला)त्ययापदिष्टाश्चैते, प्रत्यक्षागमबाधितपक्षानन्तरं प्रयुक्तत्वात् । तद्वाधा च पूर्वमेव दर्शिता । प्रकरणसमाश्चामी प्रकरणचिन्ताप्रवर्तकानां हेत्वन्तराणां सद्भावात् । तथाहि-ईश्वरो जगत्कर्ता न भवति निरुपकरणत्वाद् दण्डचक्र-चीवराद्युपकरणरहितकुलालवत् । तथा व्यापित्वादाकाशवत् । एकत्वात् तद्वद् । इत्यादय इति । नित्यत्वादोनि तु विशेषणानि तद्वयवस्थापनायानीयमानानि षण्ठं प्रति कामिन्या रूपसम्पन्निरूपणप्रायाण्यपकर्णनीयान्येव । विचारासहत्वल्यापनार्थ तु किञ्चिदुच्यते । तत्रादौ नित्यत्वं विचार्यते । तच्चेश्वरे न घटते । तथाहि-नेश्वरो नित्यः स्वभावभेदेनैव क्षित्यादिकार्यकर्तृत्वात् । अप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थं नित्यमिति हि नित्यत्वलक्षणाभ्युपगमात् । स्वभावभेदानभ्युव(मेदानभ्युपगमे) सृष्टिसहारादिविरुद्ध . कार्यकारित्वमतिदुर्घटम् । नापि तज्ज्ञानादीनां नित्यत्वं वाच्यं प्रतीतिविरोधात् । ईश्वरज्ञानादयो न नित्या ज्ञानादित्वादस्मदादिज्ञानादिवदित्यनुमानविरोधाच्चेति । एतेन

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193