Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 78
________________ श्रीभुवनसुन्दरसूरिरचितम् अवाच्या वा ? यदि सती तर्हि "एकमेवाद्वितीयं ब्रह्म' [छां०उ०६.२.१] इत्य. सम्बद्धम् , अविद्याया द्वितीयायाः सद्भावात् । असती चेत् तर्हि न तबलात् प्रपञ्चप्रतीतिः द्वयोरप्यसत्त्वात् । अवाच्या चेत् तर्हि सर्वथा एकदेशेन वा ? आद्यविकल्पेऽविधेति नाम्नाऽप्यावाच्यत्वं स्यात् । अस्ति च युष्मन्मतेनाविद्याशब्देन सा वाच्या । ततः प्रकट एवात्र विरोधः । द्वितीयविकल्पे सर्वेऽप्यवाच्याः स्यु. पदार्थाः, कैश्चित् प्रकारैः सर्वेपामवाच्यत्वात् । सदसद्विलक्षणत्वमवाच्यत्वमित्याशयः । तदपि क्लीवस्य कामिनीकामनायामपत्योत्पत्यभिलाषप्रायम् , सदसद्विलक्षणस्य वस्तुन एवासत्त्वात् । अथ सर्वव्यवहारापेक्षयाऽस्ति तर्हि व्यवहारोऽपि सन्नसन् वेति तदेव दूषणम् । किञ्च, प्रपञ्चो दृश्यः प्रत्यक्षेण । तैच्चासद्रूपं सद्रूपं वा ? आद्यविकल्पे न हि तेन बन्ध्यास्तनन्धयेनेव किञ्चित् साधयितुं पार्यते । द्वितीयविकल्पे प्रत्यक्षस्य सद्रूपत्वेऽद्वितीयवादहानिः । तथा प्रत्यक्षं विधायकं निषेधक वा ? नाद्यविकल्पः प्रपञ्चनिषेधसिद्धौ निबन्धनम्, प्रत्यक्षस्य विधायकत्वादेव । तथा चोक्तम्-'आहुर्विधात प्रत्यक्षं न निषेद्धृ विपश्चितः” [ब्र० सि० २.१] इति वचनात् । द्वितीयविकल्पस्तु वानगीकारादेव बाधितः । अथानुमानगभ्यः प्रपञ्चस्तर्हि दृश्यत्वादिति स्थाने अनुमेयत्वादिति वाच्यम् । एवं कल्पनेऽप्यजागलस्तनदोहनेनेव न भवदिष्टस्य दुग्धस्येव प्राप्तिः । तदप्यनुमानं सदसद्वेति दूषणपरम्परोद्घोषणा कार्या । अथासत्यादपि अनुमानात् परब्रह्मसिद्धियथा असत्यादपि जलचन्द्रान्नभचन्द्रस्य । एतदपि न चतुरचेतश्चमत्कारकारकम् , असत्येन खरविषाणेनेव कस्यापि साधयितुमशक्यत्वात् । ____ अथ मिथ्यात्वं परमार्थसत्यत्ववैधुर्यं सिसाधयिषितम् । एव तर्हि सद्रूपता सिद्धा प्रपञ्चस्य । परमार्थसत्यत्वे विवाद । सोऽप्यपाकरिष्यते । तथाहि-किमिदं परमार्थसत्यत्वं नाम परब्रह्मरूपसत्त्वं प्रमाणप्रतिष्ठितार्थविषयत्वं वा ? आधविकल्पे सुतरां घटपट-शकट-मुकुटादिपदार्थसार्थपुरुषोत्तमस्य परमार्थसत्यत्वलक्ष्मीसम्भोगभाजनत्वम्, भवद्भिरेव परमब्रह्मविवर्तत्वेन स्वीकारात् “सर्व वै खल्विदं ब्रह्म' [छा.उ.३.१४.१] "नेह नानास्ति किञ्चन" [वृ०७० ४.४.१९] इत्यागमप्रामाण्यात् । द्वितीये ब्रह्मणः प्रमाणप्रतिष्ठितार्थविषयत्वे प्रपञ्चस्यापि प्रमाणप्रतिष्ठितार्थरूपत्वम्, ब्रह्मरूपत्वात् तस्य । तथा च घटपटादयः पदार्थाः सत्याः, प्रतिभासमानत्वात् परब्रह्मवत् इत्यनेनापि तत्सिद्धिः । अथ स्वव्यवहारातिरेकि स्वदर्शनापेक्षया नियतविधिमात्रं दृश्यत्वमाकासितं तर्हि , एतदेव विचार्यते । स्वशब्दस्य प्रपञ्चापेक्षत्वे प्रपञ्च सत्योऽसत्यो वा ? आद्यविकल्पे १ तत् प्रत्यक्षम् ।

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193