Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 71
________________ वादचतुष्कम् घटवत् । नापि विरुद्धो निश्चितकर्तृके घटादौ कार्यत्वदर्शनात् । नाप्यनैकान्तिको निश्चिताकर्तृकेभ्यो व्योमादिभ्यो व्यावर्त्तमानत्वात् । नापि कालात्ययापदिष्टः प्रत्यक्षागमाबाधितविषयत्वात् । न च वाच्यं घटक दिदृष्टान्तदृष्टासर्वज्ञत्वासर्वकर्तृत्वादिधर्मानुरोधेन सर्वज्ञादिविशेषणविशिष्टसाध्यविपर्ययसाधनाद् विरुद्धो हेतुर्दृष्टान्तश्च साध्यविकलः घटादौ तथाभूतबुद्धिमतोऽभावादिति । यतः साव्य-साधनयोर्विशेषेण व्याप्तौ गृह्यमाणायां सकलानुमानोच्छेदप्रसक्तिः । किन्तु सामान्येनान्वयव्यतिरेकाभ्यां हि व्याप्तिरवधार्यते, तौ चानन्त्याद् व्यभिचाराच्च विशेषेषु ग्रहीतुं न शक्यौ । तेन बुद्धिमत्पूर्वकत्वमात्रेण कार्यत्वस्य व्याप्तिः प्रत्येतव्या न शरीरत्वादिना । न खलु कर्तृत्वसामग्रयां शरीरमुपयुज्यते । तद्वयतिरेकेणापि ज्ञानेच्छाप्रयत्नाश्रयत्वेन स्वशरीरकरणे कर्तृत्वोपलम्भात् । अकिञ्चित्करस्यापि सहचरत्वमात्रेण , कारणत्वे वह्नः पैङ्गल्यस्य धूमं प्रति कार[ण]त्वप्रसङ्गः स्यात् । विद्यमानेऽपि हि शरीरे ज्ञानादीना समस्तानां व्यस्ताना वाऽभावे कुलालादावपि कर्तृत्वं नोपलभ्यते । प्रथमं हि कार्योत्पादककारणकलापज्ञानं ततः करणेच्छा ततः प्रयत्नस्तत फलनिष्पत्तिरित्यमीषां त्रयाणां समुदितानामेव कार्यकर्तृत्वे सर्वत्राव्यभिचारः । सर्वज्ञता चास्याखिलकार्यकर्तृत्वात् सिद्धा । प्रयोगोऽत्र ईश्वरः सर्वज्ञोऽखिलक्षित्यादिकार्यकर्तृत्वात् । यो हि यस्य कर्ता स तदुपादानाद्यभिज्ञः, यथा घटोत्पादक. कुलालो मृत्पिण्डाद्यभिज्ञः, जगतः कर्ता चायम्, तस्मात् सर्वज्ञ इति । उपादानं हि जगत. पार्थिव-आप्य तैजस-वायवीयलक्षणाश्चतुर्विधाः परमाणव., निमित्तकारणमदृष्टादि, भोक्ताऽत्मा, भोग्यं तन्वादि । न चैतदनभिज्ञस्य क्षित्यादौ कर्तृत्वं सभवत्यस्मदादिवत् । ते च तदीयज्ञानादयो नित्याः, कुलालादिज्ञानादिभ्यो विलक्षणत्वात् । एकत्व च क्षित्यादिकर्तुरनेककर्तृणामेकाधिष्ठातृनियमितानां प्रवृत्त्युपपत्तेः सिद्धम् । सिद्धा हि स्थपत्यादीनामेकसूत्रधारपरतन्त्राणां महाप्रासादादिकार्यकरणे प्रवृत्तिः । न च-ईश्वरस्यैकरूपत्वे नित्यत्वे च कार्याणां कादाचित्कत्व वैचित्र्यं च विरुद्धयते इति वाच्यम् । कादाचित्कविचित्रसहकारिलाभेन कार्याणां कादाचित्कत्विादि] विरोधासभवात् । ननु क्षित्यादेवुद्धिमहेतुकत्वे क्रियाऽदर्शनेऽपि जीर्णकूपादिष्विव कृतवुद्धिरुत्पद्येत, न चात्र सोत्पद्यमाना दृष्टा, अतो दृष्टान्तदृष्टस्य हेतोर्धर्मिण्यभावादसिद्धत्वं । तदप्ययुक्तम् । यत. प्रामाणिकस्य तु नासिद्धत्व कार्यत्वस्य बुद्धिमत्कर्तृपूर्वकत्वेन प्रतिपन्नाविनाभावस्य क्षित्यादौ प्रसिद्धेः, पर्वतादौ धूमादिवत् । न च यावन्तः पदार्थाः कृतकास्तावन्तः कृतवुद्धिमात्मन्याविर्भावयन्तीति नियमोऽस्ति । खातप्रतिपूरितायां भव्यक्रियादर्शिनः

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193