________________
वादचतुष्कम् घटवत् । नापि विरुद्धो निश्चितकर्तृके घटादौ कार्यत्वदर्शनात् । नाप्यनैकान्तिको निश्चिताकर्तृकेभ्यो व्योमादिभ्यो व्यावर्त्तमानत्वात् । नापि कालात्ययापदिष्टः प्रत्यक्षागमाबाधितविषयत्वात् । न च वाच्यं घटक दिदृष्टान्तदृष्टासर्वज्ञत्वासर्वकर्तृत्वादिधर्मानुरोधेन सर्वज्ञादिविशेषणविशिष्टसाध्यविपर्ययसाधनाद् विरुद्धो हेतुर्दृष्टान्तश्च साध्यविकलः घटादौ तथाभूतबुद्धिमतोऽभावादिति । यतः साव्य-साधनयोर्विशेषेण व्याप्तौ गृह्यमाणायां सकलानुमानोच्छेदप्रसक्तिः । किन्तु सामान्येनान्वयव्यतिरेकाभ्यां हि व्याप्तिरवधार्यते, तौ चानन्त्याद् व्यभिचाराच्च विशेषेषु ग्रहीतुं न शक्यौ । तेन बुद्धिमत्पूर्वकत्वमात्रेण कार्यत्वस्य व्याप्तिः प्रत्येतव्या न शरीरत्वादिना । न खलु कर्तृत्वसामग्रयां शरीरमुपयुज्यते । तद्वयतिरेकेणापि ज्ञानेच्छाप्रयत्नाश्रयत्वेन स्वशरीरकरणे कर्तृत्वोपलम्भात् । अकिञ्चित्करस्यापि सहचरत्वमात्रेण , कारणत्वे वह्नः पैङ्गल्यस्य धूमं प्रति कार[ण]त्वप्रसङ्गः स्यात् । विद्यमानेऽपि हि शरीरे ज्ञानादीना समस्तानां व्यस्ताना वाऽभावे कुलालादावपि कर्तृत्वं नोपलभ्यते । प्रथमं हि कार्योत्पादककारणकलापज्ञानं ततः करणेच्छा ततः प्रयत्नस्तत फलनिष्पत्तिरित्यमीषां त्रयाणां समुदितानामेव कार्यकर्तृत्वे सर्वत्राव्यभिचारः । सर्वज्ञता चास्याखिलकार्यकर्तृत्वात् सिद्धा । प्रयोगोऽत्र ईश्वरः सर्वज्ञोऽखिलक्षित्यादिकार्यकर्तृत्वात् । यो हि यस्य कर्ता स तदुपादानाद्यभिज्ञः, यथा घटोत्पादक. कुलालो मृत्पिण्डाद्यभिज्ञः, जगतः कर्ता चायम्, तस्मात् सर्वज्ञ इति । उपादानं हि जगत. पार्थिव-आप्य तैजस-वायवीयलक्षणाश्चतुर्विधाः परमाणव., निमित्तकारणमदृष्टादि, भोक्ताऽत्मा, भोग्यं तन्वादि । न चैतदनभिज्ञस्य क्षित्यादौ कर्तृत्वं सभवत्यस्मदादिवत् । ते च तदीयज्ञानादयो नित्याः, कुलालादिज्ञानादिभ्यो विलक्षणत्वात् । एकत्व च क्षित्यादिकर्तुरनेककर्तृणामेकाधिष्ठातृनियमितानां प्रवृत्त्युपपत्तेः सिद्धम् । सिद्धा हि स्थपत्यादीनामेकसूत्रधारपरतन्त्राणां महाप्रासादादिकार्यकरणे प्रवृत्तिः । न च-ईश्वरस्यैकरूपत्वे नित्यत्वे च कार्याणां कादाचित्कत्व वैचित्र्यं च विरुद्धयते इति वाच्यम् । कादाचित्कविचित्रसहकारिलाभेन कार्याणां कादाचित्कत्विादि] विरोधासभवात् । ननु क्षित्यादेवुद्धिमहेतुकत्वे क्रियाऽदर्शनेऽपि जीर्णकूपादिष्विव कृतवुद्धिरुत्पद्येत, न चात्र सोत्पद्यमाना दृष्टा, अतो दृष्टान्तदृष्टस्य हेतोर्धर्मिण्यभावादसिद्धत्वं । तदप्ययुक्तम् । यत. प्रामाणिकस्य तु नासिद्धत्व कार्यत्वस्य बुद्धिमत्कर्तृपूर्वकत्वेन प्रतिपन्नाविनाभावस्य क्षित्यादौ प्रसिद्धेः, पर्वतादौ धूमादिवत् । न च यावन्तः पदार्थाः कृतकास्तावन्तः कृतवुद्धिमात्मन्याविर्भावयन्तीति नियमोऽस्ति । खातप्रतिपूरितायां भव्यक्रियादर्शिनः