________________
अज्ञातकर्तृकम्
औदासीन्येनापि न चीवरस्य चारित्रं प्रत्यनिमित्तता तस्य तदुपकारित्वात् । यच्च यत्रोपकारि न तत् तस्मिन्नुदासीनम् । यथा तन्त्वादयः पटे | चारित्रोपकारि च चीवरम्, तथ'हि-सयमात्मकं चारित्रम् । न त्वत ( त्वेत) स्य तत्परिहारेण शुद्धिरस्ति ।
आगमश्च
४२
किं संजमोवयारं करेइ वत्थाइ जति मई सुणसु । सीअत्ताणं ताणं जलणतणगताण सत्ताणं ॥
तह निसि चाउक्कालं सझायज्झाणसाहणमिसीणं ।
महिमहियावासोसारयातिर क्खानिमित्तं च ॥ [विशेषा० भा० ३०५८-५९ ]
जो वि दुवत्थ-तिवत्थो एंगण अचेलगो वि संथर ।
१
न हु ते हीलति परं सव्वे विअ ते जिणाणाए ||
इत्यत स्थितमेतत् चारित्रनिमित्तं चीवरमिति । नासिद्धता हेतो' । विरुद्धानैकान्तिकते चेतत्का (च तर्का) नुसारत परिहर्तव्ये । ततश्च
‘निर्ग्रन्थानाममलज्ञानयुतैस्तीर्थकृद्भिरुक्तानि । सम्यग्व्रतानि यस्मान्नैर्ग्रन्थ्यमतः प्रशंसन्ति ॥ रागाद्यपचयहेतुर्नैर्ग्रन्ध्यं स्वप्रवृत्तितस्तेषाम् । तद्वृत्तिरतोवश्यं वस्त्रादिपरिग्रहयुतानाम् ॥' इत्यादि दुर्मतिस्पन्दितमकर्णनीयम् ।
गरीयस्त्वा[त्] सचेलस्य धर्मस्यान्यैस्तथागतै । शिष्यस्य प्रत्ययाच्चैवं वस्त्रं दध्रेत लज्जया ॥ ॥ इति चीवरस्थापकस्थलम् ॥
४. ईश्वरोत्थापकस्थलम्
|| ॐ || ईश्वरवादिन ईश्वरस्य जगत्कर्तृत्वस्थापनार्थमित्थं प्रमाणयन्ति । क्षित्यादिकं बुद्धिमत्कर्तृकं कार्यत्वाद घटादिवदिति । न चायमसिद्धो हेतु' । क्षित्यादेः सावयवत्वेन कार्यत्वप्रसिद्धे । तथाहि उर्वीपर्वततर्वादिकं सर्वं कार्य सावयवत्वाद्
१ तुलनार्थं द्रष्टव्यम् - बृहत्कल्पभाष्यगाथा ३९८४, निशीयभाष्यगाथा ५८०७ ।