________________
वादचतुष्कम् इत्याप्तवचनानाश्रयणम् । यदि तु रथ्यापुरुषाणामपीति कल्प्यते तिरश्चामपि तत्काल्पनाऽस्तु । अथ देशविरतिभाज एव ते इति न तेषां तत्प्रतिपत्तिस्तहि सर्वविरतिस्तत्कारणम् । तथा च तद्वता एकेन यद् कृतं तत् किमखिलैः कर्तव्यं, 'तथाविधशक्तियुक्तैर्वा ? यद्याद्यस्तदा एकस्मिन्नपि मास-षण्मासादिकतपश्चरणेऽपरैरपि तदाचरणीयं स्यात् । अथ द्वितीयः पक्षस्तर्हि जिनकल्पोऽपि तथाविधशक्तियुक्तैरेव प्रतिपत्तव्यः । तथाविधशक्तिविकलानां च तत् तपश्चरणं बहुतरदोषायेति न तत् तपश्चरणीयम् । तद् वस्त्रेऽपि समानं भवत्येवेदानींतनयतीनां तथाशक्तिसंहननविकलतया हिमकणानुक्तशीतादिषु बहुतो बहुतो दोषहेतुकमग्न्यारम्भादिकम् । आह च वाचकः -
। शीतवातातपैर्दशमशकैश्चापि खेदितः । __' मा सम्यक्त्वादिषु ध्यानं न सम्यक् सविधास्यति ॥ [ ]
यच्च 'जिताचेलपरीषहो मुनिः' इति वचनतो न चीवरं धर्मोपकीति(धर्मोपकारीति)। तत्र जिताचेलपरीषहत्वं चेलाभावेनैवाहोस्विदेषणाशुद्धतत्परिभोगेनापि । यदि चेलाभावेनैव ततः क्षुत्परीषहजयनमप्याहाराभावेनैवेति व्रतग्रहणकाल एवानशनमायातम् । एतच्च तवापि न समतम् । ततः परिशुद्धोपभोगितयापि जिताचेलपरीषहत्वमिति द्वितीय एव पक्षः । स चास्मत्पथवत्येवेति न कुतोऽपि चीवरस्य धर्मानुपकारित्वनिश्चयः । अथ परेषां कपायकारणत्वेन चारित्रबाधकत्वं चीवरस्य, तर्हि धर्मादयोऽपि कस्यचित् कपायकारणं न वा ? न तावन्न तेऽपि कस्यचित् कषायकारणमिति चीवरत्वेऽपीति । उक्तं च
अत्थि व कि किं वि जए जस्स व तस्स व कसायबीजं जं । वत्थू न हुज्ज एवं धम्मो वि [तुमे ण] वेत्तन्वो ॥ जेण कसायनिमित्तं जिणो वि गोसालसगमाईणं । धम्मो धम्मपरा वि य पडिणीआणं जिणमयं च ॥ [विशेषा०भा० ३०४२-४३] अथैषां मुक्त्यगतया कषायहेतुत्वेऽपि न हेतुता, तदिहापि समानम् । उक्त च वाचकसिद्धि(द्ध)सेनेन
मोक्षाय धर्मसिद्धयर्थं शरीरं धार्यते यथा । शरीरधारणार्थं च भैक्षग्रहणमिष्यते ॥ तथैवोपग्रहार्थाय पात्रचीवरमिष्यते । जैनैरुपग्रहः साधोरिष्यते न परिग्रहः ॥ [