________________
अज्ञातकर्तृकः न हि धत्तूरकभावितानां बहूनामपि लोष्टादिपु सुवर्णज्ञानं भ्रान्तं न भवति । श्रूयते च शास्त्रेषु लोकेषु च शतम् अप्यन्धानां न पश्यति । किञ्च, यदि बहूनामुपलम्भः प्रमाणं तर्हि ज्ञानमयामूर्तत्वादिलक्षणयथावस्थितात्मनः स्वरूपे योगिपरिज्ञानमप्रमाणं स्यात् । योगिव्यतिरिक्तैः समस्तैरपि जनैस्तथाविधस्यात्मस्वरूपस्यापरिज्ञानात् । न च स्तोकानामपि योगिनां ज्ञानम् अप्रमाणं भवति । तस्मात् स्वल्पानामपि यज्ज्ञानं सम्यग भवति तदेव प्रमाणम् । ततश्च भवदादीनां शीतेऽपि वह्नौ उष्णत्वसंवेदनं भ्रान्तमेव । __ अथैवं प्रकटविकटकोपाटोपप्रकम्पमानतनूकै प्रतिपाद्यते वावदूकै. यथा-अस्मदादीनां वढेरुष्णत्वग्राहक ज्ञान भ्रान्तमिति कथ निश्चियते । न हि सर्वज्ञमन्तरेणान्यस्यवंजातीया शक्तिरस्ति । तदेतदपि प्रकटान्तर्वा(ा)प्तितां भवतां प्रकटयति । यतो यथा ह्येकत्रमहानसादौ धूमधूमध्वजयोरविनाभावग्रहणे सति सर्वत्रायम् असर्वज्ञस्यापि निश्चयो भवति यथा यत्र धूमस्तत्र वह्निर्भवत्येवेति । तथाऽत्राप्येकज्ञानस्य विपरीतार्थग्राहकस्य भ्रान्तत्वं निश्चीयते । एवं तथा विपरीतार्थपरिच्छेदकत्वात् । यद् यद् विपरीतार्थपरिच्छेदकं तत् तत् भ्रान्तम् । यथा शुक्तिकाशकले रजतज्ञानम् । विपरीतार्थपरिच्छेदकं चैतत् । तस्माद् भ्रान्तमिति ।
अथैवं निगद्यते निरवद्यहृयगद्यपद्यप्रवन्धवन्धुराभिर्वाग्भिर्भवद्भिः यथा शुक्तिकाशकले दूरदेशावस्थितत्वसदृशत्वादिकारणवशाद् रजतबुद्धिभवन्ती भ्रान्ता भवति । इह तु गीते वह्नौ उष्णत्वोपलब्धिः कुतः संजायते । इति न हि तावत् किमपि कारणमुपलभामहे येन भ्रान्तत्वं स्यात् । अतस्तस्माद् वहेरुष्णत्वसवेदनमभ्रान्तमेव । तदेतदपि वावद्यमान वसन्तसमयवन्न भवन्मनोरथमल्लिकावल्लिका पल्लवयति । यतोऽनाद्यविद्यावासनावशात् तुषारकणशीतलेऽपि वह्नौ उष्णत्ववुद्धिर्भवतां बोभवीति यथा दाखरूपेष्वपि विषयेषु सुखबुद्धिः कैश्चित्तु मन्त्रदेवतादिसान्निध्येन सकलपदार्थसार्धयाथात्म्यम् । तस्मात् प्रत्यक्षेणैवाशुशुक्षणे शीतत्वोपलम्भात् न प्रत्यक्षविरुद्ध पक्षः ।
नाप्यनुमानविरुद्धः । अथ प्रचण्डपण्डितप्रकाण्डमण्डलीमौलिमण्डनायमानैर्नि सूप्यतेऽभिरूपप्रधानै - यथा उष्णो वह्निर्दाहकत्वात् । यद् यद् दाहक तत् तदुष्णम् । यथा मार्तण्डमण्डलम् । दाहकश्चायम् । तस्माद् उष्ण एवेत्यनुमानेनानुमानविरुद्धोऽयम् । नन्वेतदपि विचारासहमेव । तथाहि प्रत्यक्षविरुद्धाऽसौ प्रतिज्ञा, वढे शीतत्वस्य प्रत्यक्षपक्षविनिस्थापितत्वात् । अनुमानविरुद्धा नास्मदीया [प्रतिज्ञा] । अनुमाने न (च) हेतुरप्यनैकान्तिक. । हिमे गीते त्वपि (गीतेऽपि) दाहकत्वोपलम्भात् । दृष्टान्तोऽपि साध्यविकल. तस्यापि शीतत्वात् ।