________________
३३
वादचतुष्कम् अथानुमानमन्तरेण शीतत्वं नाङ्गीक्रियते तर्हि अनुमानमप्युच्यते । शीतं मार्तण्डमण्डलं पार्थिवत्वात् स्फटिकोपलादिवत् । अथैतदोषभीतैर्मार्तण्डमण्डलांशुवदिति दृष्टान्तान्तरमाश्रीयते । नन्वेव सति दृष्टान्तान्तरप्रतिपत्तिलक्षणं दूषणं समापनीपद्येत भवताम् । किञ्च, किरणान्यपि गीतलान्येव । अत्राप्यनुमिमीमहे । शीतलानि मार्तण्डमण्डलांशूनि पार्थिवसंभवत्वाद् घटवत् । ततश्च दृष्टान्तान्तराश्रयणेऽपि न काचिदप्यर्थसिद्धिरभूत् । एवं च सति सोऽयमाभाणकः सत्यः सम्पन्नः यथा काकोऽपि भक्षितोऽजरामरत्वमपि न सजातमिति । हेतुरपि नासिद्ध. । विपर्ययसाधने दृष्टान्ताभावात् । नाप्यनेकानतिकः । विपक्षे वृत्त्यभावात् । दृष्टान्तोऽपि न साध्यविकल. साधनविकलो वा, हिमे शीतत्वस्य दाहकत्व]स्य च सकलजगत्प्रतीतित्वात् । तस्मात् सकलकलङ्कचक्रवालविकलानुमानेन स्वसाध्यं साध्यत एवेति स्थितम् ।
॥ अग्निशीतत्वस्थापनावादः ।।
२. सर्वज्ञव्यवस्थापकस्थलम् इह केचिदज्ञानमहामहीधरभाराक्रान्तचेतस सकलविमलाकरलोकालोकविलोकिताशेपपदार्थसार्थस्य भगवत' सर्वज्ञस्य निराकरणार्थमित्थं प्रमाणपञ्चकाभावमुद्भावयन्ति । नास्ति सर्वज्ञस्तद्ग्राहकप्रमाणपञ्चकाभावात् खरविषाणवत् । न तावत् प्रत्यक्ष प्रमाणं सर्वज्ञसाधनायोत्सहते । तस्यातीन्द्रियत्वात् । प्रत्यक्षस्य च सदिन्द्रियविषयत्वात् । "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणा वुद्धिजन्म तत् प्रत्यक्षम्" [मी०सू०१.१.४] इति वचनात् ॥१॥ नाप्यनुमानम् । तद्धि लिङ्गलिगिनोरविनाभावग्रहणे सति प्रवर्तते । यथा महानसादावग्निधूमयोरध्यक्षेणायं धूमोऽग्निं विना न भवतीत्यविनाभावं विनिश्चित्य पश्चात् पर्वतनितम्बादौ गगनतलावलम्बिनी बहुलधूमरेखामवलोक्य तत्कारणभूतस्याग्नेः प्रतीतिर्भवति । न चैव सर्वज्ञाविनाभूतं किञ्चिल्लिङ्गमुपलभामहे येन तत्कल्पना साध्वी स्यात् ॥२॥ नाप्युपमानं तत्साधनाय कक्षां बध्नाति, उपमानोपमेयसद्भावे प्रवर्तनात् । यथा नगरायातेन केनचित् कश्चिद् ग्रामवासी प्रपच्छेकीदृशो गवय इति । स च प्रयुक्ते यथा गौ. खरविषाणकुकुन्द(ककुत्सास्नालागूलाद्यवयवसम्पन्नस्तथा गवयोऽपीति वचनाहितसस्कारस्य पश्चादव्यां क्वचित् पर्यटतो गवयदर्शनात् तस्य विमर्शः प्रवर्तते यथा गौरक्तलक्षणस्तथा गवयोऽयमिति