________________
___३४.
अज्ञातकर्तृकम् स प्रतिपद्यते । न चात्रामुकवत् सर्वज्ञ इति कल्पना युक्ता तथाविधस्य कस्यचिदभावात् ||३|| नापि शाव्दं प्रमाणं तदस्तित्वं साधयति । ततोऽपि तस्याप्रतिपत्तेः । तथाहि-यथा कश्चिदाहपाकाद्यर्थी कश्चिदविप्रतारकमप्राक्षीत्-क्याग्निरस्ति । स चाभिधत्ते अस्मात् कूटात् परत्र प्रविभागे वह्निस्तिष्ठतीति वचनानन्तरं प्रवृत्तस्य जाज्वल्यमानज्वालाकलापाकुले दाहपाकाद्यर्थक्रियाक्षमे हुतभुजि प्रतीतिर्भवति । नैवं सर्वज्ञशब्दादाप्तप्रयुक्तादपि सर्वज्ञे प्रतिपत्तिस्तथा तददर्शनात् ॥४॥ नाप्यर्थापत्तिरत्र गमिका ।। सा हि कार्यनिष्पत्त्यन्यथानुपपत्ती व्यवस्थाप्यते । यथा 'पीनो देवदत्तो दिवा न भुक्ते' । पीनत्वस्यान्यथानुपपत्तेर्निशि भुक्त इति गम्यते । न च सर्वज्ञसद्भावमन्तरेण कश्चिदर्थो नोत्पद्यते (नोपपद्यते) येन तद्भावदर्शनात् [तसिद्धिः भवेत् ] ॥५॥ तस्मात् प्रमाणपञ्चकाभावादभाव एवात्र प्रवर्तत इति । उक्तं च
प्रमाणपञ्चक यत्र वस्तुरूपे न जायते ।
वस्त्वसत्तावबोधार्थ तत्राभावप्रमाणता ॥ [लो०वा ०अभाव १]
तदेतद् पित्तज्वरोपरुद्धस्येव प्रलापमात्रम् । न पुनर्विवक्षितार्थसाधकमित्यपहस्तयितव्यम् । तथापि विद्वज्जनमनोरञ्जनाय किञ्चिदुच्यते । तत्र यत्तावन्नास्ति सर्वज्ञस्तद्ग्राहकप्रमाणपञ्चकाभावात् खरविषाणवदिति साधनमुपन्यस्तं तत्र प्रतिज्ञापदयोर्विरोधं प्रकटमेव लक्षयामः । तथाहि-यदि सर्वज्ञो, नास्ति कथम् ; नास्ति चेत् , सर्वज्ञः कथमिति । अथेत्थमाचक्षीथा --'परैः सर्वज्ञोऽभ्युपगम्यते-तेषामनिष्टसम्पादनार्थ सर्वज्ञ इत्युच्यते' । तर्हि भवन्तं पृच्छामः परकीयोऽभ्युपगमो भवता प्रमाणमप्रमाणं वा स्यादिति । यदि प्रमाणं तर्हि परैः सर्वज्ञस्याभ्युपगमकत्वान्निर्मूलतया तावकीनं प्रमाणं त्वाभिमतं (प्रमाणत्वाभिमत) साधनमप्रमाणताकोटिमारोहतीति । अथाप्रमाणं तर्हि प्रतिज्ञापदयोर्विरोधस्तदवस्थ एवावतिष्ठते । तथा हेतुरप्याश्रयासिद्ध प्रमेयाभावात् ।
___अथ पर्याकुलितचेतोवृत्तिरेव ब्रूयात् परिकल्पनाकृतप्रमेय इति तर्हि सा विद्यमानस्याविद्यमानस्य वेति. विकल्पो जन्मान्तरोपात्तधर्माधर्माविवाव्याहतप्रसरौ पुरतोऽवतिष्ठते । यदि विद्यमानस्य [तर्हि] व्यर्था परिकल्पना । तामन्तरेणापि तस्य विद्यमानत्वात् । विद्यमानस्यापि यदि परिकल्पना तदाऽतिप्रसङ्गो वेदस्यापि कल्पनापत्ते । ततश्च प्रमाणोपन्यासेनापि प्रतिक्षेप्तुमशक्यत्वेन विपरीतसाधनाद्विरुद्धश्च स्यात् । अथाविद्यमानस्य कल्पनाऽभिप्रेयते । एव च सति न कश्चिदपि हेतुराश्रय(या)सिद्धिमास्फन्देत् । तथासति अनित्यः शब्दश्चाक्षुषत्वादित्यादेरपि.गमकत्वप्रसनः । तत्रापि कस्यचिद्धर्मिण' कल्पयितुं शक्यत्वात् ।